उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः
अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते
प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः
जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः
एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः
सूर्यदैवतका चैव पितृयोनिरिति श्रुता
तत्राधिदैवत चन्द्रं जानीहि मुनिसत्तमं
अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता
पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः
संपूर्णकुंभवत्तिष्टेत्कुम्भकः स हि विश्रुतः
विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम्
अन्यथा खलु जायन्ते महारोगा भयङ्कराः
स सर्वपापनिर्मुक्तो ब्रह्मणः पदमान्पुयात्
समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः
प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम्
मूढात्मानं च तं विद्याद्ध्यानं चास्य न सिध्यति
प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा
आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम्
विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम्
पीताम्बरधरं देवं हेमयज्ञोपवीतिनम्
श्रीवत्सवक्षसं देवं सुरासुरनमस्कृतम्
ध्यायेदात्मानमव्यक्तं परात्परतरं विभुमट्
ध्यानं कृत्वा मुहुर्त्तं वा परं मोक्षं लभेन्नरः
ध्यानात्प्रसीदति हरिद्धर्यानात्सर्वार्थसाधनम्
तेन ध्यानेन तुष्टात्मा हरिर्मोक्षं ददाति वै
ध्यानं ध्येयं ध्यातृभावं यथा नश्यति निर्भरम्
भवेन्निरन्तरं ध्यानादभेदप्रतिपादनम्
निर्वातदीपवत्संस्थः समाधिरभिधीयते
न जिघ्रति न स्पृशति न किञ्चद्वक्ति सत्तम
सर्वोपाधिविनिर्मुक्तो योगिनां भात्यचञ्चलः