न तान्पुंनति तीर्थानि सुराभाण्डमिवापगा
जानीयात्तं मुनिश्रेष्ठ महापातकिनां वरम्
कुर्वन्ति तत्फलं विद्यादक्षयं सुखदायकम्
हरिभक्तिर्दृढा यस्य हरिपूजेति गीयते
एभिर्विशुद्धमनसां मोक्षं हस्तगतं विदुः
अभ्यसेदासनंसम्यग्योगसाधनमुत्तमम्
कौर्मंवज्रासनं चैव वाराहं मृगचैलिकम्
वार्षभं नागमात्स्ये च वैयान्घं चार्द्धचन्द्रकम्
माकरं त्रैपथं काष्ठं स्थाणुं वैकर्णिकं तथा
त्रिंशत्संख्यान्यासनानि मुनीन्द्रैः कथितानि वै
उपासको जयेत्प्राणान्द्वन्द्वातीतो विमत्सरः
अभ्यासेन जयेत्प्राणान्निःशब्दे जनवर्जिते
प्राणायाम इति प्रोक्तो द्विविधः स प्रकीर्त्तितः
जयध्यानं विनागर्भः सगर्भस्तत्समन्वितः
एवं चतुर्विधः प्रोक्तः प्राणायामो मनीषिभिः
सूर्यदैवतका चैव पितृयोनिरिति श्रुता
तत्राधिदैवत चन्द्रं जानीहि मुनिसत्तमं
अतिसूक्ष्मा गुह्यतमा ज्ञेया सा ब्रह्मदैवता
पूरयेद्दक्षिणेनैव पूरणात्पूरकः स्मृतः
संपूर्णकुंभवत्तिष्टेत्कुम्भकः स हि विश्रुतः
विद्धि तच्छून्यकं नाम प्राणायामं यथास्थितम्
अन्यथा खलु जायन्ते महारोगा भयङ्कराः
स सर्वपापनिर्मुक्तो ब्रह्मणः पदमान्पुयात्
समामाहृत्य निगृह्णाति प्रत्याहारस्तु स स्मृतः
प्रयान्ति परमं ब्रह्म पुनरावृत्तिदुर्लभम्
मूढात्मानं च तं विद्याद्ध्यानं चास्य न सिध्यति
प्रत्याहृतानीन्द्रियाणि धारयेत्सा तु धारणा
आत्मानं परमं ध्यायेत्सर्वधातारमच्युतम्
विकसत्पद्यपत्राक्षं चारुकुण्डलभूषितम्
पीताम्बरधरं देवं हेमयज्ञोपवीतिनम्