त्राहि मां करुणासिन्धो मनोतीति नमो ऽस्तुते
उवाच परया प्रीत्या शङ्खचक्रगदाधरः
तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा
भगवद्भक्तरुपेण लोकाक्रक्षामि सर्वदा
एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः
वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः
विशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः
अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः
गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः
पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः
वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः
ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः
तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः
सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः
हरिनामपरा ये च ते वै भागवतोत्तमाः
कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः
गोयत्रीनिरता ये च ते वै भागवतोत्तमाः
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः
तत्काष्टाङ्कितकर्णा ये ते वै भागवतोत्तमाः
तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः
सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः
शिवध्यानरता ये च ते वै भागवतोत्तमाः