अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी
सत्यं प्राहुर्मुनिश्रेष्ठ अस्तेयं शृणु साम्प्रतम्
स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम्
ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी
स चण्डालसमो ज्ञेयः सर्ववर्णबहिष्कृतः
तत्संभाषणमात्रेण ब्रह्महत्या भवेन्नृणाम्
तत्संगसंगिनां संगान्महापातकदोषभाक्
अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः
क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः
असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता
नियमानपि वक्ष्यामितुभ्यं ताञ्छृणु नारद
संध्योपासनमुख्याश्च नियमाः परिकीर्त्तिताः
तपो निगदितं सद्भिर्योगसाधनमुत्तमम्
अष्टाक्षरस्य मन्त्रस्य महावाक्यचयस्य च
स्वाध्यायं यस्त्यजेन्मूढस्तस्य योगो न सिध्यति
स्वाध्यायैस्तोष्यमाणाश्च प्रसीदन्ति हि देवताः
त्रिविधे ऽपि च विप्रेन्द्र पूर्वात्पूर्वात्परो वरः
जपस्तु वाचिकः प्रोक्तः सर्वयज्ञफलप्रदः
स तूपांशुर्जपः प्रोक्तः पूर्वस्माद्द्विगुणो ऽधिकः
स जपोमानसः प्रोक्तो योगसिद्धिप्रदायकः
तस्मात्स्वाध्यायसंपन्नो लभेत्सर्वान्मनोरथान्
संतोषहीनः पुरुषो न लभेच्छर्म कुत्रचित्
इतो ऽधिकं कदा लप्स्य इति कामस्तु वर्द्धते
यदृच्छालाभसंतुष्टो भवेद्धर्मपरायणः
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम्
न फलन्ति मुनीश्रेष्ठ भस्मनि न्यस्तहव्यवत्
तस्माद्रागादिकं सर्वं परित्यज्य सुखी भवेत्
कृतशौचो ऽपि दुष्टात्मा चण्डालसदृशः स्मृतः
तमेव दैवतं हॄन्ति नरकं च प्रपद्यते
अलङ्कृतः सुराभाण्ड इव शान्तिं न गच्छति