द्वे ब्रह्मणी वेदितव्ये इति चाथर्वर्णी श्रुतिः
तयोरभेदविज्ञानं योग इत्यभिधीयते
अपरः प्रोच्यते सद्भिः परमात्मा परः स्मृतः
अव्यक्तः परमः शुद्धः परिपूर्ण उदाहृतः
भवेत्तदा मुनिश्रेष्ठ पाशच्छेदो ऽपरात्मनः
नृणां विज्ञानभेदेन भेदवानिव लक्ष्यते
गीयमानं च वेदान्तैस्तस्मान्नास्ति परं द्विज
कर्त्तृत्वं वापि भोक्तृत्वं निर्गुणस्य परात्मनः
किमप्यन्यद्यतो नास्ति तज्ज्ञेयं मुक्तिहेतवे
तद्विचारोद्भवं ज्ञानं परं मोक्षस्य साधनम्
परमज्ञानिनामेतत्परब्रह्मात्मकं द्विज
भाति विज्ञानभेदेन बहुरुपधरो ऽव्ययः
तस्मान्मायां त्यजेद्योगान्मुमुक्षुर्द्विजसत्तम्
अनिर्वाच्या ततो ज्ञेया भेदबुद्धिप्रदार्यिनी
तस्मादज्ञानविच्छेदो भवेद्रौजितमायिनाम्
ज्ञानिनां परमात्मा वै हृदि भाति निरन्तरम्
अष्टाङ्गैः सिद्ध्यते योगस्तानि वक्ष्यामि तत्त्वतः
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च
एषां संक्षेपतो वक्ष्ये लक्षणानि मुनीश्वर
अक्रोधश्चानसूया च प्रोक्ताः संक्षेपतो यमाः
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी
सत्यं प्राहुर्मुनिश्रेष्ठ अस्तेयं शृणु साम्प्रतम्
स्तेयमित्युच्यते सद्भिरस्तेयं तद्विपर्ययम्
ब्रह्मचर्यपरित्यागाज्ज्ञानवानपि पातकी
स चण्डालसमो ज्ञेयः सर्ववर्णबहिष्कृतः
तत्संभाषणमात्रेण ब्रह्महत्या भवेन्नृणाम्
तत्संगसंगिनां संगान्महापातकदोषभाक्
अपरिग्रह इत्युक्तो योगसंसिद्धिकारकः
क्रोधमाहुर्धर्मविदो ह्यक्रोधस्तद्विपर्ययः
असूया कीर्तिता सद्भिस्तत्त्यागो ह्यनसूयता