तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर
यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा
येन जन्मसहस्रेषु तस्य भक्तिर्भवेद्धरौ
श्रद्धया परया चैव सर्वं पापं प्रणश्यति
सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः
योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः
क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत्
प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः
तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः
अनीर्ष्या च दया चैव योगयोरूभयोः समाः
इति निश्चित्य मनसा योगद्वितयमभ्यसेत्
ते जानन्ति परं भावं देवदेवस्य चक्रिणः
न तस्य तुष्यते विष्णुर्यतो धर्मपतिः स्मृतः
दंभाचारः स विज्ञेयः सर्वपातकिभिः समः
तत्तपः सा च पूजा च तद्ध्यानं हि निरर्थकम्
मुक्तयर्थमर्चयेत्सम्यक् क्रियायोगपरो नरः
समर्चयति देवेशं क्रियायोगः स उच्यते
स्तोत्राद्यैः स्तौति यो विष्णुं कर्मयोगी स उच्यते
पुष्पाद्यैश्चार्चनं विष्णोः क्रियायोग उदाहृतः
सर्वपापानि नश्यन्ति पूर्वजन्मार्जितानि वै
ज्ञानं हि मोक्षदं ज्ञेयं तदुपायं वदामि ते
सम्यग् विचारयेद्धीमान्सद्भिः शास्त्रार्थकोविदैः
अनित्यानि परित्यज्य नित्यमेव समाश्रयेत्
अविरक्तो भवेद्यस्तु स संसारे प्रवर्तते
तस्य संसारविच्छित्तिः कदाचिन्नैव जायते
शमादिगुणहीनस्य ज्ञानं नैव च सिध्यति
हरिध्यानपरो नित्यं मुमुक्षुरभिधीयते
सर्वगं भावयेद्विष्णुं सर्वभूतदयापरः
इति जानाति यो विप्रतज्ज्ञानं योगजं विदुः
योगो ज्ञानं विशुद्धं स्यात्तज्ज्ञानं मोक्षदं विदुः