यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद
यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि
हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः
तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम्
तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते
ज्ञानरुपं सदानन्दं प्राहुर्वैमोक्षसाधनम्
समर्चयन्ति तं विद्याच्छाश्वतस्थानदं हरिम्
हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम्
आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम्
अनूपमो ऽखिलाधारस्तां देवं शरणं व्रजेत्
तं प्राहुर्मोक्षदं विष्णुं मुनयस्तत्त्वदर्शिनः
स एव कर्मफलदो मोक्षदो ऽकामकर्मणाम्
भुङ्क्ते य ईश्वरो ऽव्यक्तस्तं प्राहुर्मोक्षदं प्रभुम्
ददाति शाश्वतं स्थानं तं दयालुं समर्चयेत्
जरामरणनिर्मुक्तो मोक्षदः सो ऽव्ययो हरिः
अमृतत्वं भजन्त्याशु तं विदुः पुरुषोत्तमम्
परात्परतरं यञ्च तद्विष्णोः परमं पदम्
परिपूर्णं ज्ञानमयं विदुर्मोक्षप्रताधकम्
य उपास्ते सदा योगी स याति परमं पदम्
कामर्द्यैवर्जितोयोगी लभते परमं पदम्
तदुपायं यथातत्त्वं ब्रूहि मे वदतां वर
यज्ज्ञानं भक्तिमूलं च भक्तिः कर्मवतां तथा
येन जन्मसहस्रेषु तस्य भक्तिर्भवेद्धरौ
श्रद्धया परया चैव सर्वं पापं प्रणश्यति
सैव बुद्धिः समाख्याता ज्ञानशब्देन सूरिभिः
योगस्तु द्विविधः प्रोक्तः कर्मज्ञानप्रभेदतः
क्रियायोगरतस्तस्माच्छ्रद्धया हरिमर्चयेत्
प्रतिमाः केशवस्यैता पूज्य एतासु भक्तितः
तस्मात्सर्वगतं विष्णुं पूजयेद्भक्तिसंयुतः
अनीर्ष्या च दया चैव योगयोरूभयोः समाः