ततश्च हस्तपादाकर्षणे न तु क्षमो रुद्रद्भिबन्धुजनैर्वेष्टितो वक्तुमक्षमः स्वार्जितधनादिकं कस्य भविष्यतीति चिन्तापरो बाष्पाविलविलोचनः कण्ठे वुरघुरायमाणे सति शरीरान्निष्क्रान्तप्राणो यमदूतैर्भर्त्स्यमानः पाशयन्त्रितो नरकादीन्पूर्ववदश्नुते
तथैव जीविनः सर्व आकर्मप्रक्षयाद् भृशम्
अभ्यसेत्परमं ज्ञानं ज्ञानान्मोक्षमवान्पुयात्
तस्मात्संसारमोक्षाय परं ज्ञानं समभ्यसेत्
हरिं न सेवते यस्तु को ऽन्यस्तस्मादचेतनः
आस्थिते कामदे विष्णो नरा यान्ति हि यातनाम्
स्थिते ऽपि ज्ञानरहिताः पच्यन्ते नरकेष्वहो
शाश्वतं भावयन्त्यज्ञा महामोहसमावृताः
संसारच्छेदकं विष्णुं न भजेत्सो ऽतिपातकी
हरिध्यानपरो विप्र चण्डालो ऽपि महासुखी
उद्वेग मानवा मूर्खाः किं न यान्ति हि पापिनः
तल्लब्ध्वा परलोकार्थं यत्नं कुर्य्याद्विचक्षणः
लभन्ते परमं स्थानं पुनरावृत्तिदुर्लभम्
यस्मिंश्च विलयं याति स संसारस्य मोचकः
तं समभ्यर्च्य देवेशं संसारात्परिमुच्यते
संसारपाशबद्धानां दुःखानि सुबहूनि च
येनोपायेन मोक्षः स्यात्तन्मे ब्रूहि तपोधन
भुज्यन्ते च मुनिश्रेष्ठ तेषां नाशः कथं भवेत्
कामाल्लोभाभिभूतः स्याल्लोभात्क्रोधपरायणाः
प्रनष्टबुद्धिर्मनुजः पुनः पापं करोति च
यथा देहभ्रमत्यक्त्वा मोक्षभाक्स्यात्तथा वद
यस्मात्संसारदुःखान्नो मोक्षोपायमभीप्ससि
हरिश्च पालको रुद्रो नाशकः स हि मोक्षदः
तं विद्यान्मोक्षदं विष्णुं नारायणमनामयम्
तमुग्रमजरं देवं ध्यात्वा दुःखात्प्रमुच्यते
ज्ञानरुपं सदानन्दं प्राहुर्वैमोक्षसाधनम्
समर्चयन्ति तं विद्याच्छाश्वतस्थानदं हरिम्
हृदि पश्यन्ति यं सत्यं तं जामीहि सुखावहम्
आकाशमध्यगः पूर्णस्तं प्राहुर्मोक्षदं नृणाम्
अनूपमो ऽखिलाधारस्तां देवं शरणं व्रजेत्