केचिच्च पुण्यविशेषाद्युत्क्रमेणापि मनुष्यजन्माश्नुवते
मनुष्यजन्म नापि च चर्मकारचण्डालव्याधानापितरजककुंभकारलोहकारस्वर्णकारतन्तुवाचसौचिकजटिलसिद्धधावकलेखकभृतकशासनहारिनीचभृत्यद्ररिदहीनाङ्गाधिकाङ्गत्वादि दुःखबहुलज्वरतापशीतश्लेष्मगुल्मपादाक्षिशिरोगर्भपार्श्ववेदनादिदुःखमनुभवन्ति
मनुष्यत्वे ऽपि यदा स्त्रीपुरुषयोर्व्यवायस्तत्समयेरेतो यदा जरायुं प्रविशति तदैव कर्मवशाज्जन्तुः शुक्रेण सह जरायुं प्रविश्य शुक्रशोणितकलले प्रवर्त्तते
पलवलभावमुपेत्य मासे प्रादेशमात्रत्वमापद्यते
ततः प्रभृति वायुवशाच्चैतन्याभावे ऽपि मातुरुह्ये दुःसहतापल्केशतयैकत्र स्थातुमशक्यत्वाद् भ्रमति
मासे द्वितीये पूर्णे पुरुषाकारमात्रतामुपगमय मासत्रितये पूर्णे करचरणाद्यवयवभावमुपगम्य चतुर्षु मासेषु गतेषु सर्वावयवानां संधिभेदपरिज्ञानं पञ्चस्वतीतेषु नखानामभिव्यञ्जककता षट्स्वतीतेषु नखसंधिपरिस्फुटतामुपगम्य नाभिसूत्रेण पुष्यमाणममेध्यमूत्रसिक्ताङ्गं जरायुणा बन्धितरक्तास्थिक्रिमिवसामज्जास्नायुकेशादिदूषिते कुत्सिते शरीरे निवासिनं स्वयमप्येवं परिदूषितदेहं मातुश्च कट्वम्ललवणात्युष्णभुक्तदह्यमात्मानं दृष्ट्वा देही पूर्वजन्मस्मरणानुभावात्पूर्वानुभूतनरकदुःथानि च स्मृत्वान्तर्दुःखेन च परिदह्यमानो मातुर्देहातिमूत्रादिरुक्षेण दह्यमान एवं मनसि प्रलयति
अहो ऽत्यन्तपापो ऽहंपूर्वजन्मनिभृत्यापत्यमित्रयोषिद्गृहक्षेत्रधनधान्यादिष्वत्यन्तरागेण कलत्रपोषणार्थं परधनक्षेत्रादिकं पश्यतो हरणाद्युपायैरपह्यत्य कामान्धतया परस्त्रीहरणादिकमनुभूय महापापान्याचरंस्तैः पापैरहमेक एवंविधनरकाननुभूय पुनः स्थावरादिषु महादुःखमनुभूय संप्रति जरायुणा परिवेष्टितो ऽन्तर्दुखेन बहिस्तापेन च दह्यामि
मया पोषिता दाराश्च स्वकर्मवशादन्यतो गताः
अहो दुखं हि देहिनाम्
भृत्यभित्रकलत्रार्थमन्यद्द्रव्यं हृतं मया
दृष्ट्वान्यस्य श्रियं पूर्वं सतत्पो ऽहमसूयया खितः
कायेन मनसा वाचा परपीडामकारिषम्तेन पापेन दह्यामि त्वहमेको ऽतिदुःखितः
एवं बहुविधं गर्भस्थो जन्तुर्विलप्य स्वयमेव वा
आत्मानमाश्वास्य उत्पत्तेरनन्तरं सत्संगेन विष्णोश्चरितश्रवणेन च विशुद्धमना भूत्वा सत्कर्माणि निर्वर्त्य अखिलजगदन्तरात्मनः सत्यज्ञानानन्दमयस्य शक्तिप्रभावानुष्टितविष्टपवर्गस्य लक्ष्मीपतेर्नारायणस्य सकलसुरासुरयक्षगन्धर्वराक्षसपन्न गमुनिकिन्नरसमूहार्चितचरणकमलयुगं भक्तितः समभ्यर्च्य दुःसहः संसारच्छेदस्यकारणभूतं वेदरहस्योपनिषद्भिः परिस्फुटं सकललोकपरायणं हृदिनिधाय दुःखतरमिमं संस्कारागारमतिक्रमिष्यामीति मनसि भवयति
यतस्तन्मातुः प्रसूतिसमये सति गर्भस्थोदेही नारदमुने वायुनापरिपीडितो मातुश्चापि दुःखं कुर्वन्कर्मपाशेन बलाद्योनिमार्गान्निष्क्रामन्सकलयातनाभोगमेककालभवमनुभवति
तेनातिक्लेशेन योनियन्त्रपूडितो गर्भान्निष्कान्तो निःसंज्ञतां याति
बाह्यवायुस्पर्शसमनन्तरमेव नष्टस्मृतिपूर्वानुभूताखिलदुःखानि वर्त्तमानान्यपि ज्ञानाभावदविज्ञायात्यन्तदुःखमनुभवति
एवं बालत्वमापन्नो जन्तुस्तत्रापि स्वमलमूत्रलित्पदेह आध्यात्मिकादिपीड्यमानो ऽपि वक्तुमशक्तक्षुत्तृषापीडितो रुदिते सति स्तनादिकं देयमिति मन्वानाः प्रयतन्ते
एवमनेकं देहभोगमन्याधीनतयानुभूयमानो दंशादिष्वपि निवारयितुमशक्तः
बाल्यभावमासाद्य मातापित्रोरुपाध्यायस्य ताडनं सदा पर्यटनशीलत्वं पांशुभस्मपङ्कादिषुक्रीडनं सदा कलहनियतत्वाम शुचित्वं बहुव्यापाराभासकार्यनियतत्वं तदसंभव आध्यात्मिकदुःखमेवंविधमनुभवति
ततस्तु तरुणभावेन धनार्जनमर्जितस्य रक्षणं तस्य नाशव्ययादिषु चात्यन्तदुःखिता मायया मोहिताः कामक्रोधादिदुष्टमनसाः सदासूयापरायणाः परस्वपरस्त्रीहरणोपायपरायणाः पुत्रमित्रकलत्रादिभरणोपायचिन्तापरायणा वृथाहङ्कारदूषिताः पुत्रादिषु व्याध्यादि पीडितेषु सत्सु सर्वव्यात्पिं परित्यज्य रोगादिभिः क्लेशितानां समीपे स्वयमाध्यात्मिकदुःखेन परिप्लुता वक्ष्यमाणप्रकारेण चितामश्नुवते
समृद्धस्य कुटुम्बस्य कथं भवति वर्त्तनम्
अश्वः पलायितः कुत्र गावः किं नागता मम
अविचारात्कृषिर्नष्टा पुत्रा नित्यं रुदन्ति च
न लभ्यते वर्त्तनं च राज बाधातिदुःसहा
व्यवसायाक्षमश्चाहं प्रात्पाः प्राघूर्णका अमी
एवमत्यन्तचिन्ताकुलः स्वदुःखानि निवारयितुमक्षमो धिग्विधिं भाग्यहीनं मां किमर्थं विदधे इति दैवमाक्षिपति
प्रकंपमानावयवश्वासकासादिपीडितो लोलाविललोचनः श्लेष्मण्यात्पकण्ठः पुत्रदारादिभिर्भर्त्स्यमानः कदा मरणमुपयामीति चिन्ताकुलो मयि मृते सति मदर्जितं गृहक्षेत्रादिकं वस्तु पुत्रादयः कथं रक्षन्ति कस्य वा भविष्यति
मद्धने परैरपहृते पुत्रादीनां कथं वर्त्तनं भविष्यतीति ममतादुःखपरिप्लुतो गाढं निःश्वस्य स्वेन वयसा कृतानि कर्माणि पुनः पुनः स्मरन् क्षणे विस्मरति च संततस्त्वासन्नमरणो
व्याधिपीडितो ऽन्तस्तापार्तः क्षणं शय्यायां क्षणं मञ्चे च ततस्ततः पर्यटन् क्षुत्तृटूपरिपूडितः किञ्चिन्मात्रमुदकं देहीत्यतिकार्पण्येन याचमानस्तत्रापि ज्वराविष्टानामुदकं न श्रेयस्करमिति ब्रुवतो मनसातिद्वेषं कुर्वन्मन्द चैतन्यो भवति