युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः
यथा कृतानि पापानि युष्माभिः सुबहूनि वै
विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा
दरिद्रे ऽपि च मूर्खे च पण्डिते वा श्रियान्विते
चित्रगुत्पेरितं वाक्यं श्रुत्वा ते पापिनस्तदा
यमाज्ञाकारिणः क्रूरश्चण्डा दूता भयानकाः
स्वदुष्कर्मफलं ते तु भुक्त्वान्ते पापशेषतः
भगवन्संशयो जातो मच्चेतसि दयानिधे
धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च
दिनान्ते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै
ग्रामदानादिपुण्यानां त्वयैव विधिनन्दन
सर्वेषामेव लोकानां विनाशः प्राकृते लये
एष मे संशयो जातस्तं भवाञ्छेत्तुमर्हति
साधु साधौ महाप्राज्ञ गुह्याद्गुह्यतमं त्विदम्
नारायणो ऽक्षरो ऽनन्तः परं ज्योतिः सनातनः
निर्गुणो ऽपि परानन्दो गुणवानिव भाति यः
गुणोपाधिकभेदेषु त्रिष्वेतेषु सनातन
ब्रह्मरुपेण सृजति विष्णुरुपेण पाति च
प्रसयान्ते समुत्थाय ब्रह्मरुपी जनार्दनः
स्थावराद्याशअच विप्रेन्द्र यत्र यत्र व्यवस्थिताः
तस्मात्कृतानां पापानां पुण्यानां चैव सत्तम
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि
सर्वकर्मफलं भुक्ते परिपूर्णः सनातनः
सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः
स्थावरा इति विख्याता महामोहसमावृताः
स्थावरत्वे पृथिव्यामुत्पबीजानि जलसेकानुपदं सुसंस्कारसामग्रीवशादन्तरुष्मप्रपाचितान्युच्छूनत्वमापद्य ततो मूलभावं तन्मूलादङ्कुरोत्पत्तिस्तस्मादपि पर्णकाण्डनालादिकं काण्डेषु च प्रसवमापद्यन्ते तेषु च पुष्पसंभवः
तानि पुष्पाणि कानिचिदफलानि कानिचित्फलहेतुभूतानि तेषु पुष्पेषु वृद्धभावेषु सत्सु तत्पुष्पमूलतस्तुषोत्पत्तिर्जायते तेषु तुषु भोक्तॄणां प्राणिनां संस्कारसामग्रीवशाद्धिमरश्मिकिरणासन्नतया तदोषधिरसस्तुषान्तः प्रविश्य क्षीरभावं समेत्य स्वकाले तण्डुलाकारतामुपगम्य प्राणिनां भोगसंस्कारवशात्संवत्सरे फलिनः स्युः
ततश्च क्रिमयो भूत्वा सदादुःखबहुलाः क्षणार्ध्दं जीवन्तः क्षणार्ध्दं म्रियमाणा बलवत्प्राणिपीडायां निवारयितुमक्षमाः शीतवातादिक्लेशभूयिष्ठा नित्यं क्षुधाक्षुधिता मलमूत्रादिषु सचरन्तो दुःखमनुभवन्ति
तत एव पद्मयोनिमागत्य बलवद्वाधोद्वेजिता वृथोद्वेगभूयिष्ठाः क्षुत्क्षान्ता नित्यं वनचारिणो मातृष्वपि विषयातुरा वातादिक्लेषबहुलाः कश्मिंश्चिज्जन्मनि तृणाशनाः कस्मिंश्चिज्जन्मनि मांसामेध्याद्यदनाः कस्मिंश्चिज्जन्मनि कन्दमूलफलाशना दुर्बलप्राणिपीडानिरता दुःखमनुभवन्ति
अण्डजत्वे ऽपि वाताशनामांसामेध्याद्यशनाश्च परपीडापरायणा नित्यं दुःखबहुला ग्राम्यपशुयोनिमागता अपि स्वजातिवियोगभारोद्वहनपाशादिबन्धनताडनहलादिधारणादिसर्वदुःखान्यनुभवन्ति