पुराणपठको याति स्तूयमानो मुनीश्वरैः
यमश्चतुर्मुखो भूत्वा शङ्खचक्रगदासिभृत्
भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः
मनुषथ्य जन्म यः प्राप्य सुकृतं न करोति च
अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत्
शरीरं यातनारुपं मलाद्यैः परिदूषितम्
सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः
ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः
गच्छ स्वपुण्यैर्मत्स्थानं सर्वभोगसमन्वितम्
एवं यमस्तमभ्यर्च्य प्रापयित्वा च सद्गतिम्
प्रलयांबुदनिर्घोषो ह्यञ्जनाद्रिसमप्रभः
योजनत्रयविस्तारो रक्ताक्षो दीर्घनासिकः
मृत्युज्वरादिभिर्युक्तश्चित्रगुत्पो ऽपि भीषणः
ततो ब्रवीति तान्सर्वान्कंपमानांश्च पापिनः
भो भो पापा दुराचारा अहॄङ्कारप्रदूषिताः
कामक्तोधादिदृष्टेन सगर्वेण तु चेतसा
कृतवन्तः पुरा पापान्यत्यन्तहर्षिताः
भृत्यमित्रकलत्रार्थं दुष्कृतं चरितं यथा
युष्माभिः पोषिता ये तु पुत्राद्या अन्यतोगताः
यथा कृतानि पापानि युष्माभिः सुबहूनि वै
विचारयध्वं यूयं तु युष्माभिश्चारितं पुरा
दरिद्रे ऽपि च मूर्खे च पण्डिते वा श्रियान्विते
चित्रगुत्पेरितं वाक्यं श्रुत्वा ते पापिनस्तदा
यमाज्ञाकारिणः क्रूरश्चण्डा दूता भयानकाः
स्वदुष्कर्मफलं ते तु भुक्त्वान्ते पापशेषतः
भगवन्संशयो जातो मच्चेतसि दयानिधे
धर्माश्च विविधाः प्रोक्ताः पापान्यपि बहूनि च
दिनान्ते ब्रह्मणः प्रोक्तो नाशो लोकत्रयस्य वै