गाढान्धकाराशअच गुहाः कण्टकावरणं महत्
शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः
क्वचिव्द्याव्राश्च गर्जन्ते वर्धन्ते च क्वचिज्ज्वराः
क्रोशन्तश्च रुदन्तश्च म्लायन्तश्चैव पापिनः
शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यान्ति पापिनः
वहॄन्तश्चायसां भारं शिश्राग्रेण प्रयान्ति वै
कर्णाभ्यां च तथा केचिद्वहॄन्तो यान्ति पापिनः
अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः
शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च
अतीव सुखसंपन्नास्ते यान्ति धर्ममन्दिरम्
घृतदा मधुदाश्चैव क्षीरदाश्च द्विजोत्तम
शाकदाः पायसं भुञ्जंन्दीपदो ज्वलयन्दिशः
पुराकरप्रदो याति स्तूयमानो ऽमरैः पथि
भूमिदो गृहदश्चैव विमाने सर्वसंपदि
हयदो यानदश्चापि गजदश्च द्विजोत्तम
अनडुद्दो मुनिश्रेष्ठ यानारुढः प्रयाति वै
तांबूलदो नरो याति प्रहृष्टोर् धममन्दिरम्
स याति परितुष्टात्मा पूज्यमानो दिविस्थितैः
द्विजग्र्यब्राह्मणानां च स यात्वतिसुखान्वितः
सर्वभोगान्वितेनासौ विमानेन प्रयाति च
पुराणपठको याति स्तूयमानो मुनीश्वरैः
यमश्चतुर्मुखो भूत्वा शङ्खचक्रगदासिभृत्
भो भो बुद्धिमतां श्रेष्ठानरकक्लेषभीरवः
मनुषथ्य जन्म यः प्राप्य सुकृतं न करोति च
अनित्यं प्राप्य मानुष्यं नित्यं यस्तु न साधयेत्
शरीरं यातनारुपं मलाद्यैः परिदूषितम्
सर्वेषु प्राणिनः श्रेष्ठास्तेषु वै बुद्धिजीविनः
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः
ब्रह्मवादिष्वपि तथा श्रेष्ठो निर्मम उच्यते
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो धर्मसंग्रहः