पुत्रदारगृहक्षेत्रधनधान्याभिधावतीम्
संत्यज्य कामं क्रोधं च लोभं मोहं मदं तथा
व्यापारान्सकलांस्त्क्त्वा पूजयध्वं जनार्दनम्
यावन्नायाति मरणं यावन्नायाति वै जरा
धीमान्नकुर्याद्विश्वासं शरीरे ऽस्मिन्विनश्वरे
आसन्नमरणो देहस्तस्माद्दर्प्पं विमुचत
एतज्ज्ञात्वा महाभाग पूजयस्व जनार्दनम्
भक्त्या यजति यो विष्णुं महापातकवानपि
सर्वतीर्थानि यज्ञाश्च सांगा वेदाश्च सत्तम
किं वै वेदैर्मखैः शास्त्रैः किंवा तीर्थनिषेवणैः
विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि
वेदान्तवेद्यं भवरोगवैद्यं ते यान्ति मर्त्याः पदमच्युतस्य
ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम्
इदानीं श्रोतुमिच्छामि यममार्गं सुदुर्गमम्
सुखदं पुण्यशीलानां पापिनां भयदायकम्
यममार्गस्य विस्तारः कथैतः पूर्वसूरिभिः
धर्मशून्या नरा यान्ति दुःखेन भृशमर्दिताः
क्रदन्तो विस्तरं दीनाः पापिनो यान्ति तत्पथि
हन्यमाना यमभटैः प्रतोदाद्यैस्तथायुधैः
क्वचिद्वै दावरुपेणः तीक्ष्णधाराः शिलाः क्वचित्
गाढान्धकाराशअच गुहाः कण्टकावरणं महत्
शर्कराश्च तथा लोष्टाः सूचीतुल्याश्च कण्टकाः
क्वचिव्द्याव्राश्च गर्जन्ते वर्धन्ते च क्वचिज्ज्वराः
क्रोशन्तश्च रुदन्तश्च म्लायन्तश्चैव पापिनः
शास्त्रास्त्रैस्ताड्यमानाश्च पृष्टतो यान्ति पापिनः
वहॄन्तश्चायसां भारं शिश्राग्रेण प्रयान्ति वै
कर्णाभ्यां च तथा केचिद्वहॄन्तो यान्ति पापिनः
अत्यर्थोच्ङ्वसिताः केचित्केचिदाच्छत्रलोचनाः
शोचन्तः स्वानि कर्मणि ज्ञानाज्ञानकृतानि च
अतीव सुखसंपन्नास्ते यान्ति धर्ममन्दिरम्