कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत्
संगङ्कृत्वार्द्धमासं तु द्वादशाहमुपावसेत्
कृत्वा संगं तु षण्मासं चरेच्चान्द्रायणद्वयम्
एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम्
मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा
जत्पकृच्छ्रं करिवधे पराकं गोवधे स्मृतम्
पानशय्यासनाद्येषु पुष्पमूलफलेषु च
शुष्ककाष्टतृणानां च द्रुमाणां च गुडस्य च
टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा
शुकं चाषं बलाकं च शिशुमारं च कच्छपम्
प्राजापत्यव्रतं कुर्याद्रेतोविण्मूत्रभोजने
रजस्वलां च चाण्डालं महापातकिनं तथा
स्पृष्ट्वा सचैलं स्नायीत घृतं संप्राशेयत्तथा
एतेष्वन्यतमं स्पृष्ट्वा अज्ञानाधद्यदि भोजने
स्नानदानजपादौ च भोजनादौ च नारद
उद्वमेद्धुक्तमंन्नतत्स्त्रात्वा चोपवसेत्तथा
व्रतादिमध्ये यद्येषा शृणुयाद्धूनिमप्युत
पापानामधिकं पापं द्विजदैवतनिन्दनम्
महापातकतुल्यानि यानि प्रोक्तानि सूरिभिः
प्रायश्चित्तानि यः कुर्यान्नारायणपरायणः
यस्तु रागादिनिर्मुक्तो ह्यनुतापसमन्वितः
महापातकयुक्तो वा युक्तो वा सर्वपातकैः
नारायणमनान्द्यन्तं विश्वाकारमनामयम्
स्मृतो वा पूजितो वापि ध्यातः प्रणमितो ऽपि वा
संपर्काद्यदि वा मोहाद्यस्तु पूजयते हरिम्
सकृत्संस्मरणाद्विष्णोर्नश्यन्ति क्लेशसंचयाः
मानुषं दुर्लभं जन्म प्राप्यते यैर्मुनीश्वर
तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम्
सर्वे ऽन्तराया नश्यन्ति मनःशुद्धिश्च जायते
धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः