हत्वा च रजतं विद्वान्कुर्याच्चान्द्रायणं मुने
चान्द्रायणद्वयं तस्य प्रोक्तं पापविशोधकम्
सहस्रादधिकस्तेये ब्रह्महत्याव्रतं चरेत्
सहस्रनिष्कमाने तु पराकं परिकीर्तितम्
गुरुतल्पगतानां च प्रायश्चित्तमुदीर्यते
स्वयमेव स्वमुष्कं तु च्छिन्द्यात्पापमुदीरयन्
गच्छन्मार्गै सुखं दुःखं न कदाचिद्विचारयेत्
मरुत्प्रपतनं वापि कुर्यात्पापमुदाहरन्
ब्राह्महत्याव्रतं कुर्याद्वादशाब्दं समाहितः
कारीषवह्निना दग्धः शुद्धिं याति द्विजोत्तम
ब्रह्महत्याव्रतं कुर्याद्रेतः सेके ऽग्निदाहनम्
ब्रह्महत्याव्रतं कुर्यान्नवाब्दान्विष्णुतत्परः
गत्वा शूद्वां गुरोर्भार्यां त्रिवर्षं व्रतमाचरेत्
पितृव्यभार्यामथ मातुलानीं पुत्रीं च गच्छेद्यदि काममुग्धः
एकस्मिन्नेव दिवसे बहुवारं त्रिवार्षिकम्
दिनत्रये गते वह्निदग्धः शुध्येत नान्यथा
मित्रस्त्रियं शिष्यपत्नीं यस्तु वै कामतो व्रजेत्
अकामतो व्रजेद्यस्तु सो ऽब्दकृच्छ्रं समाचरेत्
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत्
तत्तद्व्रतं स निव्रर्त्य शुद्धिमान्पोत्यसंशयम्
कायकृच्छ्रं चरेत्सम्यगन्यथा पतितो भवेत्
संगङ्कृत्वार्द्धमासं तु द्वादशाहमुपावसेत्
कृत्वा संगं तु षण्मासं चरेच्चान्द्रायणद्वयम्
एतच्च त्रिगुणं प्रोक्तं ज्ञानात्संगे यथाक्रमम्
मार्जाराजाविकं श्वानं हत्वा कुक्कुटकं तथा
जत्पकृच्छ्रं करिवधे पराकं गोवधे स्मृतम्
पानशय्यासनाद्येषु पुष्पमूलफलेषु च
शुष्ककाष्टतृणानां च द्रुमाणां च गुडस्य च
टिट्टिभं चक्रवाकं च हंसं कारण्डवं तथा
शुकं चाषं बलाकं च शिशुमारं च कच्छपम्