मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः
वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः
आराधितो जगन्नाथो माक्रण्डेयेन धीमता
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम्
दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता
तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता
त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः
तद्दयेन भवेदब्दः स देवानां दिनं भवेत्
मानुषेणैव मासेन पितॄणां दिनमुच्यते
दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम्
एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः
यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता
मनुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः
विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता
आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ
सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम्
विस्मितः परमप्रीतो ववन्दे चरणौ हरेः
तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम्
वासुदेवमनाधारं प्रणतो ऽस्मिजनार्दनम्
अप्रतर्क्यमनिर्देश्यं प्रणतो ऽस्मि जनार्द्दनम्
सर्वतत्त्वमयं शान्तं प्रणतो ऽस्मि जनार्द्दनम्
परात्परतरं रुपं प्रणतो ऽस्मि जनार्द्दनम्
सर्वैकरुपं परमं प्रणतो ऽस्मि जनार्द्दनमम्
सर्वं सनातनं श्रेष्ठं प्रणतो ऽस्मि जनार्द्दनम्
अरुपं बहुरुपं तं प्रणतो ऽस्मि जनार्द्दनम्
तमादिदेवमीशानं प्रणतो ऽस्मि जनार्द्दनम्