प्रावश्चित्तं विधानं तु सर्वत्र मुनिसत्तम
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा
क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने
पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः
ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत्
अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत्
यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत्
सुरासंस्पृष्टपात्रं तु सुराभाण्डोदकं तथा
तालं च पानसं चैव द्राक्षं खार्जूरसंभवम्
गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः
एतेष्वन्यतमं यस्तु पिवेदज्ञानतो द्विजः
समक्षं वा परोक्षं वा बलाच्चौयण वा तथा
सुवर्णस्य प्रमाणं तु मन्वाद्यैः परिभाषितम्
गवाक्षागतमार्तण्डरश्मिमध्ये प्रदृश्यते
त्रसरेण्वष्टकं निष्कस्तत्रयं राजसर्षपः
यवत्रयं कृष्णलः स्यान्माषस्तत्पञ्चकं स्मृतः
हत्वा ब्रह्मस्वमज्ञानाद्द्वादशांब्दं तु पूर्ववत्
गुरुणां यज्ञकतॄणां धार्मिष्टानां तथैव च
कृतानुतापो देहे च संपूर्णे लेपयेद् धृतम्
ब्रह्मस्वं क्षत्रियो हृत्वा पश्चात्तापमवाप्य च
तत्र सांतपनं कृत्वा द्वादशाहोपवासतः
रन्तासनमनुष्यस्त्रीधेनुभूम्यादिकेषु च
त्रसरेणुसमं हेम हृत्वा कुर्यात्समाहितः
प्राणायामत्रयं कुर्याद्धृत्वा निष्कप्रमाणकम्
गौरसर्षपमानं तु हृत्वा हेम विचक्षणः
यवमात्रसुवर्णस्य स्तेयाच्छुद्धो भवेद्दिजः
हेम कृष्णलमात्रं तु हृत्वा सांतपनं चरेत्
गोमूत्रपक्वयवभुग्वर्षेणैकेन शुद्ध्यति
ब्रह्महत्याव्रतं कुर्याद्द्वादशाब्दं समाहितः
कुर्यात्सांतपनं सम्यगन्यथा पतितो भवेत्