तत्सर्वं निष्फलं प्रोक्तं राक्षसैः परिसेवितम्
प्रष्टव्या ब्राह्मणा धर्मं सर्वधर्मफलेच्छुभिः
न निष्पुनन्ति विप्रेन्द्र सुराभाण्डमिवापगाः
महापातकिननस्त्वेते तत्संसर्गी च पञ्चमः
संवसेत्सह तं विद्यात्पतितं सर्वकर्मसु
स्वेनैव हतविप्रस्य कपालमपि धारयेत्
तद्द्रव्यं ध्वजदण्डे तु धृत्वा वनचरो भवेत्
सम्यक्संध्यामुपासीत त्रिकालं स्नानमाचरेत्
ब्रह्मचारी भवेन्नित्यं गन्धमाल्यादि वर्जयेत्
यदि वन्यैर्न जीवेत ग्रामे भिक्षां समाचरेत्
ब्रह्महा शुद्धिमान्पोति कर्मार्हश्चैव जायते
गोनिमित्तं द्विजार्थं वा प्राणान्वापि परित्यजेत्
एतेष्वन्यतमं कृत्वा ब्रह्महा शुद्धिमान्पुयात्
अग्निप्रवेशनं वापि मरुत्प्रपतनं तथा
आचार्यादिवधे चैव व्रतमुक्तं चतुर्गुणम्
एवं विप्रस्य गदितः प्रायश्चित्तविधिर्द्विज
ब्राह्मणं हॄन्ति यः शूद्रस्तं मुशल्यं विर्दुर्बुधाः
ब्राह्मणीनां वधे त्वर्द्धं पादः स्यात्कन्यकावधे
हत्वा तु क्षत्रियं विप्रः षडब्दं कुच्छ्रमाचरेत्
दीक्षितस्य स्त्रियं हत्वा ब्राह्मणी चाष्टवत्सरान्
प्रावश्चित्तं विधानं तु सर्वत्र मुनिसत्तम
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा
क्षीरं घृतं वा गोमूत्रमेतेष्वन्यतमं मुने
पक्वायसनिभं कृत्वा पिबेज्चैवोदकं ततः
ताम्रेण वाथं पात्रेण तत्पीत्वा मरणं व्रजेत्
अज्ञानादात्मबुद्द्या तु सुरां पीत्वा द्विजश्चरेत्
यदि रोगानिवृत्त्यर्थमौषधार्थं सुरां पिबेत्
सुरासंस्पृष्टपात्रं तु सुराभाण्डोदकं तथा
तालं च पानसं चैव द्राक्षं खार्जूरसंभवम्
गौडी माध्वी सुरा मद्यमेवमेकादश स्मृताः