अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि
पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः
मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा
परेद्युरेव विप्रेन्द्र सद्यः कालो विधीयते
सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये
दशमीसंयुता हॄन्तिपुण्यं जन्मत्रयार्जितम्
द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता
त्रघयोदशी च रात्र्यन्ते तत्र वक्ष्यामि निर्णयम्
गृहस्थाः सिद्धिमिच्छन्ति यतो मोक्षं यतीश्वराः
तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः
गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता
दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां
अविद्धापि निषिद्धैव परतो द्वादशी यदि
द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे
द्वादशी च त्रयोदश्यां नास्ति वा विद्यते ऽथवा
यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च
द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत्
उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः
द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे
केचिदाहुश्च पूर्वां तु तन्मतं न समञ्जसम्
पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत्
नाद्याद्वै यदि भुञ्जीत सुरापेन समो भवेत्
प्रायश्चित्तं मुनिश्रेष्ठ कर्त्तव्यं तत्र याज्ञिकैः
आप्यायस्व ऋचा चैव सोमपास्त इति द्विज
आसत्येंनोद्वयं चैव त्रयोमन्त्रा उदाहृताः
यः करोति व्रतादीनि तस्य स्यादक्षयं फलम्
तस्माद्धर्मपरा यान्ति तद्विष्णोः परमं पदम्
तस्मात्तांस्तु भवव्याधिः कदाचिन्नैव बाधते
प्रायश्चित्तविशुद्धात्मा सर्वकर्मफलं लभेत्