आदित्यशीतकिरणौ ग्राह्यावस्तङ्गतौ यदि
दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूः स्मृता
सिनीवालीं द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि
अपराह्नद्वयव्यापिन्यमावास्यातिथिर्यदि
अमावास्या प्रतीता चेन्मध्याह्नात्परतो यदि
अत्यन्तक्षयपक्षे तु परेद्युर्नापराह्नगा
अर्वाचीनक्षये चचैव सायाह्नव्यापिनी तथा
अत्यन्ततिथिवृद्धौ तु भूतविद्धां परित्यजेत्
यथार्वाचीनवृद्धौ तु संत्याज्या भूतसंयुताः
मध्याह्नद्वितये व्यात्पा ह्यमावास्या तिथिर्यदि
अन्वाधानं प्रवक्ष्यामि संतः संपूर्णवर्वणि
पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः
मध्याह्नद्वितये स्याताममावास्या च पूर्णिमा
परेद्युरेव विप्रेन्द्र सद्यः कालो विधीयते
सद्यः कालः परेद्युः स्याज्ज्ञेयमेवं तिथिक्षये
दशमीसंयुता हॄन्तिपुण्यं जन्मत्रयार्जितम्
द्वादशी च त्रयोदश्यामस्ति चेत्सा परा स्मृता
त्रघयोदशी च रात्र्यन्ते तत्र वक्ष्यामि निर्णयम्
गृहस्थाः सिद्धिमिच्छन्ति यतो मोक्षं यतीश्वराः
तदानीं दशमीविद्धाप्युपोष्यैकादशी तिथिः
गृहस्थानां तु पूर्वोक्ता यतीनामुत्तरा स्मृता
दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां
अविद्धापि निषिद्धैव परतो द्वादशी यदि
द्वादशद्वादशीपुण्यं त्रयोदश्यां तु पारणे
द्वादशी च त्रयोदश्यां नास्ति वा विद्यते ऽथवा
यदिभिश्चोत्तरा ग्राह्या ह्यवीराभिस्तथैव च
द्वादशी च त्रयोदशयामस्ति तत्र कथं भवेत्
उपोष्यैव द्वितीयेति केचिदाहुश्च भक्तितः
द्वादशी च त्रयोदश्यामस्ति तत्रैव चापरे
केचिदाहुश्च पूर्वां तु तन्मतं न समञ्जसम्