गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः
मनसा वचसा चापि देहेन च पतिव्रता
रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम्
जातकं कारयामास मङ्गलं विधिपूर्वकम्
ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः
नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः
वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम्
निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम्
न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत्
एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः
मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः
वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः
आराधितो जगन्नाथो माक्रण्डेयेन धीमता
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम्
दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता
तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता
त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः
तद्दयेन भवेदब्दः स देवानां दिनं भवेत्
मानुषेणैव मासेन पितॄणां दिनमुच्यते
दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम्
एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः
यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता
मनुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः
विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता
आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ
सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम्