तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः
सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते
अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक्
कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः
कथितः कुर्वतामेवं पापं सद्यो विलीयते
पितरस्तस्य तुष्यन्ति संततिश्चैव वर्द्धते
शृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत्
अनिर्णीतासु तिथिषु न किञ्चित्फलति द्विज
अमावास्या तृतीया च ह्युपवासव्रतादिषु
नागविद्धा तु या षष्टी शिवविद्धा तु सत्पमी
दर्शं च पौर्णमासीं च सत्पमीं पितृवासरम्
कृष्णपक्षे पूर्वविद्धां सत्पमीं च चतुर्दशीम्
व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते
असंभवे व्रतादीनां यदि पौर्वाह्निकी तिथिः
प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा
तिथिनक्षत्रसंयोगविहितव्रतकर्मणि
अर्द्धरात्रादधो या तु नक्षत्रव्यापिनी तिथिः
यद्यर्द्धरात्रघगयोर्व्यात्पं नक्षत्रं तु दिनद्वये
अर्द्धरात्रद्वये स्यातां नक्षत्रं च तिथिर्यदि
अर्ध्दरात्रद्वयव्यात्पा तिथिर्नक्षत्रघसंयुता
ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निंसंयुता
ततः स्युस्तिथयः पुण्याः कर्मानुष्टानतो दिवा
तिथिर्नक्षघत्रयोगेन या पुण्या परिकीर्तिता
उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रते
संक्रान्तिषु तु सर्वासु पुण्यकालोनिगद्यते
तत्र कर्कटको ज्ञेयो दक्षिणायनसंक्रमः
वृषभे वृश्चिके चैव सिंहे कुम्भे तथैव च
तुलायां चैव मेषे च पूर्वतः परतस्तथा
कन्यायां मिथुने चैव मीने धनुषि च द्विज
माकरं संक्रमं प्राहुरुत्तरायणसंज्ञकम्