भुज्यमानेषु विप्रेषु कर्त्ता श्रद्धापरायणः
रक्षोघ्नान्वैष्णवांश्चैव पैतृकांश्चविशेषतः
त्रिमधु त्रिसुपर्णं च पावमानं यजूंषि च
इतिहासपुराणानि धर्मशास्त्राणि चैव हि
ब्राह्मणेषु च भुक्तेषु विकिरं विक्षिपेत्तथा
स्वयं च पादौ प्रक्षघाल्य सम्यगाचम्य नारद
स्वस्तिवा चनकं कुर्यादक्षय्योदकमेव च
अचालयित्वा पात्रं तु स्वस्ति कुर्वन्ति ये द्विजाः
दातारो नो ऽभिवर्द्धन्तामित्याद्यैः स्मृतिभाषितैः
दद्याच्च दक्षिणां शक्त्या तांबूलं गन्धसंयुतम्
वाजेवाजे इति ऋचा पितॄन्देवान्विसर्जयेत्
तथा स्वाध्यायमध्वानं प्रयत्नेन परित्यजेत्
आमश्राद्धं प्रकुर्वीत हेम्ना वास्तृश्यभार्यकः
पैतृकेन तु सूक्तेन होमं कुर्याद्विचक्षणः
स्नात्वा च विधिवद्विप्र कुर्याद्वा तिलतपर्णम्
दरिद्रो ऽहं महापापी वदन्निति विचक्षणः
तत्कुलं नाशमायाति ब्रह्महत्यां च विन्दति
न तेषां संततिच्छेदः संपन्नास्ते भवन्ति च
तस्मिंस्तुष्टे जगन्नाथे सर्वास्तुष्यन्ति देवताः
यक्षाश्च सिद्धा मनुजा हरिरेव सनातनः
तस्माद्दाता च भोक्ता च सर्वं विष्णुः सनातनः
सर्वं विष्णुमयं ज्ञेयं तस्मादन्यन्न विद्यते
अनौपम्यस्वभावश्च भगवान्हव्यकव्यभुक्
कर्त्ता कारयिता चैव सर्वं विष्णुः सनातनः
कथितः कुर्वतामेवं पापं सद्यो विलीयते
पितरस्तस्य तुष्यन्ति संततिश्चैव वर्द्धते
शृणुष्व तन्मुनिश्रेष्ठ कर्मसिद्धिर्यतो भवेत्
अनिर्णीतासु तिथिषु न किञ्चित्फलति द्विज
अमावास्या तृतीया च ह्युपवासव्रतादिषु
नागविद्धा तु या षष्टी शिवविद्धा तु सत्पमी