यथावदर्चनं कुर्यात्स्मरन्नारायणं प्रभुम्
अपहता इत्यृचा वै कर्त्ता तु विकिरेत्तिलान्
दत्त्वेति भूयो दद्यच्च दैवे क्षणप्रतीक्षणम्
अन्नदाने चतुर्थी स्याच्छेषाः संपुद्धयः स्मृताः
तत्पात्रे सेचयेत्तोयं शन्नोदेवीत्यृचा ततः
आवाहयेत्ततो देवान्विश्वे देवाःस इत्यृचा
गन्धैश्च पत्रपुष्पैश्च धूपैर्दीपैर्यजेत्ततः
तिलसंयुक्तदर्भैश्च दद्यात्तेषां सदासनम्
शन्नोदेव्या जलं क्षिप्त्वा तिलोसीति तिलान्क्षघिपेत्
या दिव्या इति मन्त्रेण दद्यादर्घ्यं च पूर्ववत्
वासोर्भिभूषणैश्वैव यथाविभवमर्चयेत्
अग्नौ करिष्य इत्युक्त्वा तेभ्यो ऽनुज्ञां समाहरेत्
कुरुष्व क्रियतां वेति कुर्विति ब्रूयुरेव च
सामाय च पितृमते स्वधा नम इतीरयेत्
स्वाहान्तेनापि वा प्राज्ञो जुहुयात्पितृयज्ञवत्
अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयते
नह्यग्निर्दूरगः कार्यः पार्वणे समुपस्थैते
यद्याग्निर्दूरगो विप्र पार्वणे समुपस्थिते
क्षयाहे चैव संप्रात्पे स्वस्याग्निर्दूरगो यदि
उपासनान्गौ दूरस्थे समीपेभ्रातरि स्थैते
उपासनाग्ना दूरस्थे केचिदिच्छन्ति वै द्विजाः
भक्ष्यैर्भोज्यैशअच लेह्यैश्च स्वाद्यैर्विप्रान्प्रपूजयत्
आगच्छन्तु महाभागाविश्वेदेवा महाबलाः
इति संप्रार्थयेद्देवान्ये देवास ऋचा नु वै
अमूर्तानां मूर्तानां च पितॄणां दीत्पतेजसाम्
एवं पितॄन्नमस्कृत्य नारायण परायणः
ततस्ते ब्राह्मणाः सर्वे भुञ्जीरन्वाग्यता द्विजाः
यथआचार प्रदेयं च मधुनांसादिकं तथा
यदि पात्रं त्यजेत्को ऽपि ब्राह्मणः श्राद्धयोजितः
भञ्जानेषु च विप्रेषु ह्यन्योन्यं संस्पुशेद्यदि