ब्रह्महत्यामवान्पोति नरकं चापि गच्छति
यथास्वाचारनिरतं प्रशान्तं सत्कुलोद्बगवम्
त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम्
वेदान्ततत्त्वसंपन्नं सर्वलोकहिते रतम्
परोपदेशनिरतं सच्छास्त्रकथनैस्तथा
श्राद्धे वर्ज्यान्मवक्ष्यामि शृणु तान्मुसमाहितः
कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः
कुवादी परिर्वत्ता च तथा देवलकः खलः
असच्छास्त्राभिनिरतः परान्ननिगतस्तथा
कुण्डश्च गोलकश्चैव ह्ययाज्यानां च याजकः
विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः
स्मृतिविक्रयिणश्चैव मन्त्रविक्रयिणस्तथा
वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः
कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः
निमन्त्रितो भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः
निमन्त्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेन्द्रियः
श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते
स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम्
तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः
राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति
दाता नरकमान्पोति भोक्ता च नरकं व्रजेत्
विद्धापराह्नि कायां तु श्राद्धं कार्यं विजानता
पूर्वा क्षये तु कर्त्तव्या वृद्वौ कार्या तथोत्तरा
तिथिः सायाह्नगा यत्र परा काव्यस्य विश्रुता
नैतन्मतं हि सर्वेषां काव्यदाने मुनीश्वर
प्रायश्चित्तविशुद्धात्मा तेभ्यो ऽनुज्ञां समाहरेत्
उभौ च विश्वेदेवार्थं पिघत्रर्थं त्रीन्यथाविधि
श्राद्धार्थं समनुज्ञातः कारयेन्मण्डलद्वयम्
वैश्यस्य वर्तुलं ज्ञेयं शूद्रस्याभ्याभ्युक्षणं भवेत्
आत्मानं वा नियुञ्जीत न विप्रं वेदवर्जितम्