ज्ञानस्वरुपममलं परं ज्योतिः सनातनम्
निर्गुणं परमं ध्यायेदात्मानं परतः परम्
सहस्रशीर्षं देवं च सदा ध्यायेज्जितेन्द्रियः
स याति परमानन्दं परं ज्योतिः सनातनम्
स याति परमं स्थानं यत्र गत्वा न शोचयति
नारायणपरा यान्ति तद्विष्णः परमं पदम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
अधः शायी ब्रह्मचारी निशि विप्रान्निमन्त्रयेत्
रत्योषधिपरान्नानि श्राद्धकर्त्ताविवर्जयेत्
श्राद्धकर्त्ता च भोक्ता च दिवास्वापं च वर्जयेत्
ब्रह्महत्यामवान्पोति नरकं चापि गच्छति
यथास्वाचारनिरतं प्रशान्तं सत्कुलोद्बगवम्
त्रिमधुत्रिसुपर्णज्ञं सर्वभूतदयापरम्
वेदान्ततत्त्वसंपन्नं सर्वलोकहिते रतम्
परोपदेशनिरतं सच्छास्त्रकथनैस्तथा
श्राद्धे वर्ज्यान्मवक्ष्यामि शृणु तान्मुसमाहितः
कुष्टी च कुनखी चैव लंबकर्णः क्षतव्रतः
कुवादी परिर्वत्ता च तथा देवलकः खलः
असच्छास्त्राभिनिरतः परान्ननिगतस्तथा
कुण्डश्च गोलकश्चैव ह्ययाज्यानां च याजकः
विष्णुभक्तिविहीनश्च शिवभक्तिपराड्मुखः
स्मृतिविक्रयिणश्चैव मन्त्रविक्रयिणस्तथा
वेदनिन्दापरश्चैव ग्रामापण्यप्रदाहकः
कूटयुक्तिरतश्चैव श्राद्धे वर्ज्याः प्रयत्नतः
निमन्त्रितो भवेद्विप्रो ब्रह्मचारी जितेन्द्रियः
निमन्त्रयेद्द्विजं प्राज्ञं दर्भपाणिर्जितेन्द्रियः
श्राद्धं समाचरेद्विद्वान्काले कुतपसंज्ञिते
स कालः कुतपस्तत्र पितॄणां दत्तमक्षयम्
तत्काल एव दातव्यं कव्यं तस्माद्द्विजोत्तमैः
राक्षसं तद्धि विज्ञेयं पितॄणां नोपतिष्टति