जलान्नकन्दमूलैर्वा गृहदानेन चार्चयेत्
सतस्मैदुष्कृतं दत्त्वा पुण्यमादाय गच्छति
विपश्चितो ऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत्
अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत्
कुर्यादहरहस्तस्मात्पञ्चयज्ञान्प्रयन्ततः
नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान्प्रचक्षते
द्विजानां भोज्यमश्री यात्पात्रं नैव परित्यजेत्
मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः
प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते
शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत्
अमृतोपस्तरणमसि अपोशानं भुजेः पुरः
प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत्
रात्रावपि यथाशक्ति शयनासनभोजनैः
यदाऽचारपरित्यागी प्रायश्चित्ती तदा भवेत्
पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा
अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः
दयावान्सर्वभूतेषु नारायणपरायणः
अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम्
व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च
वानप्रस्थः प्रकुर्वीत तपश्चान्द्रायणादिकम्
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु
वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः
शमादिगुणसंयुक्तः कामक्रोधविवर्जितः
समः शत्रौ च मित्रे च तथा मानापमानयोः
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादीभवेद्यतिः
विवादरहिते चैव भिक्षार्थं पर्यटेद्यतिः
जपेच्च प्रणवं नित्यं जितात्मा विजितेन्द्रियः
न तस्य निष्कृतिर्द्दष्टा प्रायश्चित्तायुतैरपि
स चण्डालसमो ज्ञेयो वर्णाश्रमविगर्हितः
निर्द्वन्द्रं निर्ममंशान्तं मायातीतममत्सरम्