गायत्र्यै च सवित्रे च प्रक्षिपेदञ्जलिद्रूयम्
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम्
प्रातरादेः परं कर्म कुर्यादपि विधानतः
वानप्रस्थश्च देवर्षे स्नायात्र्निषवणं यतिः
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर
शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम्
पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः
परित्यजति तं विद्यान्महापातकिनां वरम्
ते यान्ति नरकान्घोरान्यावच्चन्द्रार्कतारकम्
तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत्
जलान्नकन्दमूलैर्वा गृहदानेन चार्चयेत्
सतस्मैदुष्कृतं दत्त्वा पुण्यमादाय गच्छति
विपश्चितो ऽतिथिं प्राहुर्विष्णुवत्तं प्रपूजयेत्
अन्नाद्यैः प्रत्यहं विप्रपितॄनुद्दिश्य तर्पयेत्
कुर्यादहरहस्तस्मात्पञ्चयज्ञान्प्रयन्ततः
नृपज्ञो ब्रह्मयज्ञश्च पञ्चयज्ञान्प्रचक्षते
द्विजानां भोज्यमश्री यात्पात्रं नैव परित्यजेत्
मुखेन वमितं भुक्त्वा सुरापीत्युच्यते बुधैः
प्रत्यक्षं लवणं चैव गोमांसशीति गद्यते
शब्द न कारयेद्विप्रस्तं कुर्वन्नारकी भवेत्
अमृतोपस्तरणमसि अपोशानं भुजेः पुरः
प्राणाद्या आहुतीर्दत्त्वाचम्य भोजनमाचरेत्
रात्रावपि यथाशक्ति शयनासनभोजनैः
यदाऽचारपरित्यागी प्रायश्चित्ती तदा भवेत्
पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत्सहैव वा
अधः शायी ब्रह्मचारी पञ्चयज्ञपरायणः
दयावान्सर्वभूतेषु नारायणपरायणः
अष्टौ ग्रासांश्च भुञ्जीत न कुर्याद्रात्रिभोजनम्
व्यवायं वर्जयेच्चैव निद्रालस्ये तथैव च
वानप्रस्थः प्रकुर्वीत तपश्चान्द्रायणादिकम्