विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत्
भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत्
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि
मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम्
सायं तु गरुडारुढां पीतांबरसमावृत्ताम्
तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन्
वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे
आपः पुनन्तु मध्याह्ने सायमग्निश्चमेति च
सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च
ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम्
ततः सूर्याय विधिवद्गन्धं पुष्पं जलाञ्जलिम्
ऊर्द्धूबाहुरधोबाहुः क्रमात्कल्यादिके त्रिके
सौराञ्छैवान्वैष्णवांश्च मन्त्रानन्यांश्च नारद
ततो ऽङ्गानि त्रिरावर्त्य ध्यायेच्छक्तीस्तदात्मिकाः
हंसारोहणकेलिखण्खण्मणेर्बिबार्चिता भूषिता गायत्री परिभाविता भवतु नः संपत्समृद्ध्यै सदा
विद्युद्दामजटाकलापविलसद्वार्लेदुमौलिर्मुदा सावित्री वृषवाहना सिततनुर्ध्येया यजूरूपिणी
तार्क्ष्यस्था मणिनूपुराङ्गदलसद्ग्रैवेयभूषोज्ज्वला हस्तालङ्कृतशङ्खचक्रसुगदापह्माश्रियै चास्तु नः
सायङ्काले समासीनो भक्त्या तद्गतमानसः
त्रिपदां प्रणवोपेतां भूर्भुवः स्वरुपक्रमाम्
गृहस्थस्य सत्तारः स्याज्जप्य एवंविधो मुने
गायत्र्यै च सवित्रे च प्रक्षिपेदञ्जलिद्रूयम्
ब्रह्मणेशेन हरिणानुज्ञाता गच्छ सादरम्
प्रातरादेः परं कर्म कुर्यादपि विधानतः
वानप्रस्थश्च देवर्षे स्नायात्र्निषवणं यतिः
ब्रह्मयज्ञं ततः कुर्याद्दर्भपाणिर्मुनीश्वर
शर्वर्याः प्रथमे यामे तानि कुर्याद्यथाक्रमम्
पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः
परित्यजति तं विद्यान्महापातकिनां वरम्
ते यान्ति नरकान्घोरान्यावच्चन्द्रार्कतारकम्
तत्रात्यमतिथिं सम्यगन्नाद्यैश्च प्रपूजयेत्