कनिष्टाङ्गुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः
तलेन चाङ्गुलाग्रैर्वा स्पृशेदंसौ विचक्षणः
दन्तकाष्टं ततः खादेत्सत्वचं शस्तवृक्षजम्
प्रक्षाल्य वारिणा चैव मन्त्रेणाप्यभिमन्त्रितम्
ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते
नवाङ्गुलं क्षत्रियश्च वैश्यश्चाष्टाङ्गुलोन्मितम्
अलाभे दैतकाष्टानां गण्डूषैर्भानुसंमितैः
करेणादाय वामेन संचर्वेद्वामदंष्ट्रया
जिह्वामुल्लिख्य ताभ्यां तु दलुभ्यां नियतेन्द्रियः
ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले
प्रणम्य तत्र तीर्थानि आवाह्य रविमण्डलात्
स्नायान्मन्त्रान्स्मरन्पुण्यांस्तीर्थानि च विरिञ्चिज
नर्मदे सिंधुकावेरि जले ऽस्मिन्सन्निधिं कुरु
आगच्छन्तु महाभागाः स्नानकाले सदा मम
पुरी द्वारावती ज्ञेया सत्पैता मोक्षदायिकाः
स्नानाङ्गं तर्पणं कृत्वाचम्यार्ध्यं भानवेर्ऽपयेत्
परिधायाहतं धौतं द्वितीयं परिवीय च
ईशानाभिमुखो विप्र गायत्र्याचम्य वै द्विज
ततस्तु वारिणात्मानं वेष्टयित्वा समुक्ष्य च
भूरादिभिर्व्याहृतिभिः सत्पभिः प्रोक्ष्य मस्तकम्
विन्यस्य हृदये तारं भूः शिरस्यथ विन्यसेत्
भूर्भुवः स्वस्तथात्रास्त्रं दिक्षु तालत्रयं न्यसेत्
आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि
मध्याह्ने वृषभारुढां शुक्लांबरसमावृताम्
सायं तु गरुडारुढां पीतांबरसमावृत्ताम्
तारं च व्याहृतीः सत्प त्रिपदां च समुच्चरन्
वाममध्यात्परैर्वायुं क्रमेण प्राणसंयमे
आपः पुनन्तु मध्याह्ने सायमग्निश्चमेति च
सुमुत्रिया न इत्युक्त्वा नासास्पृष्टजलेन च
ऋतं च सत्यमेतेन कृत्वा चैवाधमर्षणम्