यद्रूतां सर्वपापानि नश्यन्त्येव न संशयः
वृत्तिं संचिन्तयेद्विप्र कृतकेशप्रसाधनः
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः
वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः
तथा वृक्षस्य च्छायायां कान्तारे वह्निसन्निधौ
ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम्
एवमादिषु देशेषु मलमूत्रं न कारयेत्
शौचाचारविहीनस्य समस्तं कर्म निष्फलम्
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम्
न मूषकादिखनितां फआलोत्कृष्टां तथैव च
शौचं कुर्यात्प्रयत्नेन समादाय शुभां मृदम्
एतन्मूत्रमुत्सर्गे शौचमाहूर्मनीषिणः
सत्प तिस्रः प्रदातव्याः पादयोर्मृत्तिकाः पृथक्
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम्
स्वस्थाने पूर्णशौचं स्यात्पथ्यर्द्धं मुनिसत्तम
गन्धलेपक्षयकरं शौर्चं कुर्याद्विचक्षणः
व्रतस्थानां तु सर्वेषां यतिवच्छौचमिष्यते
एवं शौचं तु निर्वर्त्य पश्चाद्वै सुसमाहितः
त्रिश्चतुर्धा पिबेदापो गन्धफेनादिवर्जिताः
तर्जन्यङ्गुष्ठयोगेन नासारन्ध्रद्वयं स्पृशेत्
कनिष्टाङ्गुष्टयोगेन नाभिदेशे स्पृशेद्द्विजः
तलेन चाङ्गुलाग्रैर्वा स्पृशेदंसौ विचक्षणः
दन्तकाष्टं ततः खादेत्सत्वचं शस्तवृक्षजम्
प्रक्षाल्य वारिणा चैव मन्त्रेणाप्यभिमन्त्रितम्
ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वनस्पते
नवाङ्गुलं क्षत्रियश्च वैश्यश्चाष्टाङ्गुलोन्मितम्
अलाभे दैतकाष्टानां गण्डूषैर्भानुसंमितैः
करेणादाय वामेन संचर्वेद्वामदंष्ट्रया
जिह्वामुल्लिख्य ताभ्यां तु दलुभ्यां नियतेन्द्रियः
ततः स्नानं प्रकुर्वीत नद्यादौ विमले जले