असूयां मत्सरत्वं च दिवास्वापं च वर्जयेत्
स्वकं नाम स्वनक्षत्रं मानं चैवातिगोपयेत्
आसवद्यूतगीतेषु द्विजस्तु न रर्तिं चरेत्
सर्पं च भषणं स्पृष्ट्वा सचैलं स्नानमाचरेत्
स्पृष्ट्वा देवलकं चैव सवासा जलमाविशेत्
अजामार्जंनिमार्जाररेणुर्द्दैवं शुभं हरेत्
वृषलीपतिसङ्गं च दूरतः परिवर्जयेत्
तथैव नग्नशयनं सर्वदा परिवर्जयेत्
तांबूलमशुचिं नाद्यात्तथा सुप्तं न बोधयेत्
न वामहस्तेनैकेन पिबेद्वक्रेण वा जलम्
न निन्देद्योगिनो विप्रान्व्रतिनो ऽपि यतींस्तथा
दर्शे च पौर्णमास्यां च यागं कुर्याद्यथाविधि
उपासनपरित्यागी सुरापीत्युच्यते बुधैः
दर्शे च प्रेतपक्षे च श्राद्धं कुर्याद्गृही द्विजः
नावधान्ये समायाते गृही श्राद्धं समाचरेत्
पुण्यक्षेत्रेषु तीर्थेषु गृही श्राद्धं समाचरेत्
वृथा भवति तत्सर्वमूर्द्धपुण्ड्रं विना कृतम्
वृथाचारः परित्याज्यस्तस्माच्छ्रेयो ऽर्थिभिर्द्विजैः
कार्या द्विजातिभिः सम्यक्सर्वकर्मफलप्रदाः
विष्णौ प्रसन्नतां याते किमसाध्यं द्विजोत्तम
यद्रूतां सर्वपापानि नश्यन्त्येव न संशयः
वृत्तिं संचिन्तयेद्विप्र कृतकेशप्रसाधनः
कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः
वहन्काष्टं करेणैकं तावन्मौनी भवेद्द्विजः
तथा वृक्षस्य च्छायायां कान्तारे वह्निसन्निधौ
ब्राह्मणानां समीपे च तथा गोगुरुयोषिताम्
एवमादिषु देशेषु मलमूत्रं न कारयेत्
शौचाचारविहीनस्य समस्तं कर्म निष्फलम्
मृज्जलाभ्यां बहिः शुद्धिर्भावशुद्धिस्तथान्तरम्
न मूषकादिखनितां फआलोत्कृष्टां तथैव च