अनधीतश्रुतिर्विप्र आचार प्रतिपद्यते
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम्
शब्दब्रह्ममयो विष्णुर्वेदः साक्षाद्धारि स्मृकतः
वेदाध्यायी ततो विप्रः सर्वान्कामानवान्पुयात्
अनुज्ञातस्ततस्तेन कुर्यादग्निपरिग्रहम्
अधीत्य गुरवे दत्त्वा दक्षिणां संविशेद्वृहम्
द्विजः समुद्वहेत्कन्यां सुशीलां धर्म चारिणीम्
द्विजः समुद्वहेत्कन्यथा गुरुतल्पराः
अतिकेशामकेशामकेशां च वाचालां नोद्वहेद्वुधः
न्यानाधिकाङ्गीमुन्मत्तां पिशुनां नोद्वहेद् बुधः
श्मश्रुव्यञ्जनसंयुक्तां कुब्जां चैवाद्वहेन्न च
विवादशीलां भ्रमितां निष्ठुरां नोद्वहेद्रुधः
अतिकृष्णां रक्तवर्णां धूर्तां नैवोद्वहे द्वुधः
तासश्वासादिसंयुक्तां निद्राशीलां च नोद्वहेत्
परापवादनिरतां तस्कारां नोद्वहेद्वुधः
गर्वितां बकवृत्तिं च सर्वथा नोद्वहेद्वुधः
प्रगल्भां वागुणां ज्ञात्वा सर्वथा तां परित्यजेत्
परानुकूलिनी या च सर्वथा तां परित्यजेत्
पूर्वः पूर्वो वरो ज्ञेयः पूर्वाभावे परः परः
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमो मतः
दैवेनाप्यथवा विप्र केचिदार्षं प्रचक्षते
अभावेषु तु पूर्वेषां कुर्यादेव परान्बुधः
सुवर्णकुण्डले चैव धौतवस्त्रद्वयं तथा
धारयेद्वैणवं दण्डं सोदकं च कमण्डलुम्
धारयेत्पुष्पमाल्ये च सुगन्धं प्रियदर्शनः
परान्नं नैव भुञ्जीत परवादं च वर्जयेत्
न संहताभ्यां हस्ताभ्यां कण्डूयेदात्मनः शिरः
देवार्चाचमनस्नानव्रतश्राद्धक्रियादिषु
नारोहेदुष्ट्रयानं च शुष्कवादं च वर्जयेत्
नापसव्यं व्रजेद्विप्र गोश्चत्थानलपर्वतान्