नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः
निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः
गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः
इति दत्वा वरं तेषामतसीकुसुमप्रभः
तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम्
अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम्
दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितो ऽभवत्
प्रसन्नवदनं शान्तं धातारं विश्वतेजसम्
ननाम दण्डवद्भूमौ देवदेव सनातनम्
शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे
अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय
बहुस्वरुपो ऽपि निरञ्जनो यस्तमीशमीढ्यं परमं भजामि
अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम्
निवृत्तमोहाः परमं पवित्रं नतो ऽस्मि संसारनिर्वर्त्तकं तम्
जगत्सेव्यं जगाद्धाम परेशं करुणाकरम्
अवाप परमां तुष्टिं शङ्खचक्रगदाधरः
उवाच परमं प्रीत्या वरं बरय सुव्रत
मनसा यदभिप्रेतं वरं वरय सुव्रत
त्वद्दर्शनमपुण्यानां दुर्लभं च यतः स्मृतम्
धर्मिष्टा दीक्षिताश्वापि वीतरागा विमत्सराः
एतेनैव कृतार्थो ऽस्मि जनार्दन जगद्धरो
तत्पदे परमं यान्नि ते दृष्ट्वा किषुनाच्युत
मदृर्शनं हि विफलं न कदाचिद्भविष्यति
तदेव पालयिष्यामि मज्जनो नानृतं वदेत्
समस्तगुणसंयुक्तो दीर्घजीवी स्वरुपवान्
मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्रये
अन्तर्दधे मृकण्डुश्च तपसः समवर्तत
किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः
अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य संप्लवे
विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति