पाषण्डः स हि विज्ञेयः सर्वधर्मबहिष्कृतः
स्त्रीणाममन्त्रतः कार्या यथाकालं यथाविधि
षष्टे वा सत्पमे वापि अष्टमे वापि कारयेत्
कुर्य्याच्च नान्दीश्राद्धं च स्वस्तिवाचनपूर्वकम्
अन्नेन कारयेद्यस्तु स चण्डाल समो भवेत्
कुर्वीत नामनिर्द्देशं सूतकान्ते यथाविधि
न दद्यान्नाम विप्रेन्द तथा च विषथमाक्षरम्
सत्पमे चाष्टमे वापि कुर्याद् गृह्योक्तमार्गतः
कर्तव्यः पादकृच्छ्रो वै चौले त्वर्द्धं प्रकल्पयेत्
आषोडशाब्दपर्यन्तं गौणं कालमुशन्ति च
आद्वाविंशाब्दपर्यन्तं कालमाहुर्विपश्चितः
चतुर्विंशाब्दपर्यन्तं गौणमाहुर्मनीषिणः
सावित्रीपतितं विद्यात्तं तु नैवालपेत्कदा
सांतपनद्वयं चैव कृत्वा कर्म समाचरेत्
र्मौञ्जी विप्रस्य विज्ञेया धनुर्ज्या क्षत्त्रियस्य तु
विप्रस्य चोक्तमैणेयं रौरवं क्षत्रियस्य तु
पालाशं ब्राह्मणस्योक्तं नृपस्यौदुम्बरं तथा
विप्रस्य केशमानं स्यादाललाटं नृपस्य च
तथा वासांसि वक्षघ्यामि विप्रादीनां यथाक्रमम्
उपनीतो द्विजो विप्र परिचर्यापरो गुरोः
प्रातः स्नायी भवेद्वर्णी समित्कुशफलादिकान्
यज्ञोपवीतमजिनं दण्डं च मुनिसत्तम
वर्णिनो वर्त्तनं प्राहुर्भिक्षान्नेनैव केवलम्
भवत्पूर्वं ब्राह्मणस्य भवन्मध्यं नृपस्य च
सांयप्रातर्वह्निकार्यं यथाचारं जितेन्द्रियः
अग्निकार्यपरित्यागी पतितः प्रोच्यते बुधैः
देवताभ्यर्च्चनं कुर्याच्छुश्रूषानुपदं गुरोः
आनीयानिन्द्यविप्राणां गृहाद्भिक्षां जितेन्द्रियः
मधुस्त्रीमांसलवणं ताम्बूलं दन्तधावनम्
छात्रघपादुक गन्धांश्च तथा माल्यानुलेपनम्