वर्णा इति समाख्याता एतेषु ब्राह्मणो ऽधिकः
मातृतश्चोपनयनाद्दि जत्वं प्राप्यते त्रिभिः
स्ववर्णधर्मत्यगेन पाषण्डः प्रोच्यते बुधैः
अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः
देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु
द्विजानामसवर्णासु कन्या सूपयमस्तथा
मांसादनं तथा श्राद्धे वानप्रस्थआश्रमस्तथा
नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ
एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः
अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः
क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः
वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा
कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम्
सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत्
न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत्
कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा
दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा
वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम्
क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः
ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत्
सर्वलोकहितोषित्वं मङ्गलं प्रियवादिता
सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम्
ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज
नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः
ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम
विष्णुस्तुष्यति विप्रेन्द्र कर्मयोगरतात्मनः
ततो याति परं स्थानं यतो नावर्त्तते पुनः
शृणुष्व तन्मुनिश्रेष्ठ सावधानेन चेतसा