एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः
मज्जन्म सफलं जातं मद्धंशः पावनीकृतः
इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा
संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि
पापौघशान्तिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः
व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम्
तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा
कृपया परया मह्यं यथावद्वक्तुमर्हसि
वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः
तत्ते वक्ष्यामि विधिवद्भक्तो ऽसि त्वमधोक्षजे
वर्णा इति समाख्याता एतेषु ब्राह्मणो ऽधिकः
मातृतश्चोपनयनाद्दि जत्वं प्राप्यते त्रिभिः
स्ववर्णधर्मत्यगेन पाषण्डः प्रोच्यते बुधैः
अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः
देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु
द्विजानामसवर्णासु कन्या सूपयमस्तथा
मांसादनं तथा श्राद्धे वानप्रस्थआश्रमस्तथा
नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ
एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः
अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः
क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः
वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा
कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम्
सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत्
न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत्
कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा
दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा
वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम्
क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः