नित्यं वदन्त्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा
सत्पात्रदान निरतांश्च सुदीनपाल्लान्दूतास्त्यजध्वमनिशं हरिनामसक्तान्
शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम्
विर्पन्द्रपादजलसेचनतो ऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम्
देवस्वलोभनिरताञ्जननाशकर्तृआनत्रानयध्वमपराधपरांश्च दूताः
ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम्
विष्णवालयं च नहि यान्ति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य
मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम्
तत्रैव सर्वपापानि निःशेषाणि गतानि मे
सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम्
विश्वासं परमं चक्रुर्यमेन परिभाषिते
सद्यः संप्रेषयामास तद्विष्णोः परमं पदम्
कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम्
स्थित्वा विष्णुपदं पश्चादिन्द्रलोकमुपगमम्
तावत्कालं दिविस्थित्वा ततो भूमिमुपागतः
जातिस्मरत्वाडज्जानामि सर्वमेतन्मुनीशअवर
एकादशीव्रतमिदमिति न ज्ञातवान्पुरा
अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम्
तस्माच्चरिष्ये विप्रेन्द्र शुभमेकादशीव्रतम्
एकादशीव्रतं यत्तु कुर्वन्ति श्रद्धया नराः
एवं पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः
मज्जन्म सफलं जातं मद्धंशः पावनीकृतः
इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा
संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि
पापौघशान्तिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः
व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम्
तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा
कृपया परया मह्यं यथावद्वक्तुमर्हसि
वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः
तत्ते वक्ष्यामि विधिवद्भक्तो ऽसि त्वमधोक्षजे