पापण्डजनसंसर्गात्पापण्डचरितो ऽभवम्
पापण्डैर्बाधितो ऽहं तु वेदमार्गं समत्यजम्
अधर्मनिरतं मां तु दृष्ट्वा महेशजाः
एवं पापसमाचारो व्यसनाभिरतः सदा
ससैन्यो ऽहं वने तत्र हत्वा बहुविधान्मृगान्
रवितीक्ष्णातपल्कान्तो रेवायां स्नानमाचरम्
अहष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम्
एकादशीव्रतपरा मया दृष्ट्वा निशामुखे
जागरं कृतवांश्वापि सेनया रहितो निशि
तत्रैव जागरान्ते ऽहं तातपञ्चत्वमागतः
दंष्ट्राकरालवदनमपश्यं समवर्तिनम्
अस्य शिक्षाविधानं च यथावद्वद पण्डितं
चिरं विचारयामास पुनश्चेदमभापत
एकादश्यां निराहारः सर्वपापैः प्रमुच्यते
जागरं चोपवासं च कृत्वा निषअपापतां गतः
तानि सर्वाणि नष्टानि ह्युपवासप्रभावतः
नानाम दण्डवद्भूमौ ममाग्रे सो ऽनुकंपितः
ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह
धर्ममार्गरता न्मर्त्यान्मानयध्वं ममान्तिकम्
नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसात्यजध्वम्
नित्यं वदन्त्यखिललोक हिताः प्रशान्ता दूरद्भटास्त्यजता तान्न ममैषु शिक्षा
सत्पात्रदान निरतांश्च सुदीनपाल्लान्दूतास्त्यजध्वमनिशं हरिनामसक्तान्
शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम्
विर्पन्द्रपादजलसेचनतो ऽप्रहृष्टांस्तान्पापिनो मम भटा गृहमानयध्वम्
देवस्वलोभनिरताञ्जननाशकर्तृआनत्रानयध्वमपराधपरांश्च दूताः
ग्रामस्य नाशकरमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम्
विष्णवालयं च नहि यान्ति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसाह्य
मयानुतापदग्धेन स्मृतं तत्कर्म निन्दितम्
तत्रैव सर्वपापानि निःशेषाणि गतानि मे
सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम्