अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती
भिषजं काव्यकर्त्तारं देवद्विजविरोधिनम्
व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत्
उपवासपरो भूत्वा परां सिद्धिमवान्पुयात्
नास्तु विष्णुसमं दैवं तपो नानशनात्परम्
नास्ति ज्ञानसमो लाभो लाभो न च धर्म समः पिता
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पुरा हिगालवो नाम मुनिः सत्यपरायणः
बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते
कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेदिते
तस्याभवद्भद्रशील इति ख्यातः सुतो वशी
बालक्राडनकाले ऽपि भद्रशीलो महामतिः
वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा
एवं ते बोधितास्तेन शिशवो ऽपि मुनीश्वर
अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः
सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम्
एकादशीति संकल्प्यव्रतं यच्छति केशवे
अपृच्छद्विस्मयाविष्टः समालिङ्ग्य तपोनिधिः
चरितं मङ्गलं यत्ते योगिनामपि दुर्लभम्
निर्द्धन्द्वो निर्ममः शान्तो हरिध्यानपरायाणः
विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा
प्रवर्त्तते मतिर्वत्स कथं ते ऽलौकिकी कृतिः
जायते भगवद्भक्तिस्तदहं विस्मयं गतः
भद्रशीलो मुनिश्रेष्ठः पित्रैवं सुविकल्पितैः
स्वानभ्रुतं यथाव्रतं सर्वं पित्रे न्यवेदयत्
जातिस्मरत्वाज्जानामि यमेन परिभाषितम्
उवाच प्रीतिमापन्नो भद्रशीलं महामतिम्
कस्य वा केन वा हेतोस्तत्सर्वं वक्तुमर्हसि
धर्मकीर्तिरिति ख्यातो दत्तात्रघेयेण शासितः
अधर्माश्च तथा धर्मा मया तु बहवः कृताः