धममागप्रवक्तारो मुक्ता एव न सशंयः
मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः
कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम्
मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत्
शृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते
सर्वपापप्रशमनं सर्वकामफलप्रदम्
मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज
कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः
यो भुङ्क्ते सो ऽत्र पापीयान्परत्र नरकं व्रजेत्
पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे
स भोक्तुं सर्वलपापानि स्पृहयालुर्नसंशयः
एकादश्यां निराहारो यदि मुक्तिमभीप्सति
एकादश्यां निराहारो यदि मुक्तिमभीप्सति एकादश्यां निराहारो यदि मुक्तिमभीप्सति
अन्नमाश्रित्य तिष्टन्ति तानि विप्र हरेर्दिने एकादश्यां तु यो भुङ्क्ते तस्य नैवास्ति निष्कृतिः
एकादश्यां निराहारः स्थित्वा याति परां गतिम्
संसेव्या सर्वथा विप्रैः संसारच्छे दलिप्सुभिः
स्नापयेद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः
शयीत सन्निधौ विष्णोर्नारायणपरायणः
गन्धपुष्पादिभिः सम्यक् ततस्त्वे वसुदीरयेत्
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत
भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत्
गीतैर्वाद्यैशअच नृत्यैश्च पुराणश्रवणादिभिः
स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः
द्वादश्यां पयसा विप्र हरिसारुपप्यमषश्नुते
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव
ब्रह्मणान्भोजयेच्छक्त्या दद्याद्वै दक्षिणां तथा
कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः
स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्
चाण्डालान्पतकितांश्चैव नेक्षेदपि कदाचन
उपवास व्रतपरो नालपेच्च कदाचन