श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः
संकल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम्
मासान्तं पारणं कुर्वे देवदेव तवाज्ञया
ममाभूष्टप्रदं देहि सर्वविन्घान्निवारय
ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे
दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे
ततः स्नायीत विधिन्नारायणपरायणः
ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सद क्षिणम्
एवं मासोपवासांश्च व्रती कुर्यात् त्रयोदश
शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च
आत्पोर्यामस्य यज्ञत्य द्विगुणं फलमश्नुते
स लभेत्परमं पुण्यमष्टान्गिष्टोमसंभवम्
अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः
ज्योतिष्टो स्यन्ग यज्ञस्य फलं सो ऽष्टगुणं लभेत्
अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत्
नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत्
गोमेधमखजं पुण्यं लभते त्रिगुणं नरः
स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते
स याति हरिसारुप्यं सर्वभोगसमन्वितम्
स याति परमानन्दं यत्र गत्वा न शोचति
धममागप्रवक्तारो मुक्ता एव न सशंयः
मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः
कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम्
मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत्
शृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते
सर्वपापप्रशमनं सर्वकामफलप्रदम्
मोक्षदं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज
कर्त्तव्यं सर्वथा विप्रविष्णुप्रीतिकरं यतः
यो भुङ्क्ते सो ऽत्र पापीयान्परत्र नरकं व्रजेत्
पूर्वापरदिने गत्रावहोरात्रं तु मध्यमे