दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम्
धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम
मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः
कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान्
ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः
स्नापयेद्देवदेवेशं पञ्चामृतविधानतः
धूपैर्दीपेश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः
नमस्ते घज्ञानरुपाय ज्ञानदाय नमो ऽस्तुते
एवं प्रणम्य देवेशं वासुदेवं जनार्जनम्
पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव
एवं समप्य देवस्य उपवासं जितेन्द्रियः
द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः
एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा
तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च
संप्राश्य पञ्चगव्यं च पूजयेद्विधिबद्धरिम्
ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः
शुक्लपक्षे व्रतं कुर्यात्पूर्वमिवविधिना नरः
द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः
अभ्यर्च्योपायनं दद्याद्रूह्यणाय जितेन्द्रियः
सुगन्धज लसंयुक्तं पूर्णकुम्भं सदक्षिणम्
दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर
परमान्नप्रदानेन सुप्रीतो भव माधव
शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कदाचन
समस्तपापकान्तारदावानलसमं द्विज
तत्फलं लभ्यते पुम्भिरेतस्मा दुपवासतः
स मुच्यते महाघोरैः तापकानां च कोटिभिः
सर्वापापहरं पुण्यं सर्वलोकोपकारकम्
तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज
प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः