परेशं शरणं जग्मुर्नारायणमनामयम्
तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम्
मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान्
जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे
नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे
नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे
नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे
अरुपाय स्वरुपाय बहुरुपाय ते नमः
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः
नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः
नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः
प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम्
स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम्
नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिं गताः
उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान्
युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः
सर्वथान्यं न बाधन्ते स्वप्ने ऽपि सुरसत्तमाः
अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः
अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः
नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः
निःशङ्गः प्रोच्यते सद्भिरिहामात्र च सत्तमाः
गच्छध्वं स्वालयं स्वस्थाः क्रीडयिष्यति वो न सः
इति दत्वा वरं तेषामतसीकुसुमप्रभः
तुष्टात्मानः सुरगणां ययुर्नाकं यथागतम्
अरुपं परमं ब्रह्मस्वप्रकाशं निरञ्जनम्
दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितो ऽभवत्
प्रसन्नवदनं शान्तं धातारं विश्वतेजसम्
ननाम दण्डवद्भूमौ देवदेव सनातनम्
शिरस्यञ्चलिमाधाय स्तोतुं समुपचक्रमे