किमर्थं पापकर्माणि करिष्ये ऽथ पुनः पुनः
किन्त्वाभ्यां चरितान्धर्मान्प्रवक्ष्यामो यथातथम्
हरिणा त्रायमाणौ च मुञ्चध्वमविलम्बितम्
अन्तकाले विष्णुगृहे तेन निष्पापतां गतौ
लभते परमं स्थानं किमु शूश्रूषणे रताः
कृष्णसेवी नरो ऽन्ते ऽपि लभते परमां गतिम्
ते दूताः सहसा यान्ति पापिनो ऽपि परां गतिम्
सो ऽपि याति परं स्थानं किमुद्वात्रघिंशवत्सरान्
एतौ हरिगृहे नित्यं जीर्णशीर्णाधिरोपकौ
कथमेतौ महाभागौ यातनाभोगमर्हथ
आरोप्यावां विमानाग्रयं ययुर्विष्णोः परं पदम्
दिव्यान्भोगान्भुक्तवन्तौ तावत्कालं मुनीश्वर
अत्रापि संपदतुला हरिसेवाप्रसादतः
प्रात्पमीदृक् फलं विप्र देवानामपि दुर्लभम्
प्राप्स्यावः परमं श्रेय इति हेतुर्निरुपितः
जायते भूमिदेवेन्द्र किं पुनः श्रद्धया कृतम्
प्रशस्य दम्पती तौ तु प्रययौ स्वतपेवनम्
परिचर्या तु सर्वेषां कामधेनूपमा स्मृता
ददाति परमं श्रेयः सर्वकामफलमप्रदः
पठेच्च शृणुयाद्वापि सो ऽपि याति परां रातिम्
दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम्
धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम
मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः
कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान्
ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः
स्नापयेद्देवदेवेशं पञ्चामृतविधानतः
धूपैर्दीपेश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः
नमस्ते घज्ञानरुपाय ज्ञानदाय नमो ऽस्तुते
एवं प्रणम्य देवेशं वासुदेवं जनार्जनम्
पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव