पर्णैस्तृणैश्च काष्ठैघैर् गृहं सम्यक् प्रकल्पितम्
तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान्
अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा
बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा
दैवयोगाकत्समायाताभ्रमन्ती विजने वने
इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया
गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तयम्
नान्मावकोकिला चाहं निषादकुलसभ्भवा
परस्वहारिणी नित्यं सदा पैशुन्यवादिनी
कियत्कालं ततः पत्या भृताहं लोकनिन्दिता
कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता
इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत्
स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ
तत्र देवालये राघत्रौ मुदितौ मांसभोजनात्
प्रारब्धकर्म भोगान्तमावां युगपदागतौ
नेतुमावां नृत्यरतौ सुधोरां यमयातनाम्
देवावसथसंस्कारसंज्ञितेन कृतेन नः
ते दूता देवदेवस्य शङ्खचक्र गदाधराः
किरीटकुण्डलधरा हारिणो वनमालिनः
भयङ्करान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान्
आवयोग्राहणे यत्तानृचुः कृष्णपरायणाः
मुञ्चध्वमेतौ निष्पापौ दम्पती हरिवल्लभौ
अपापे पापधीर्यस्तु तं विद्यात्पुरुषाधमम्
पापे त्वपापधीर्यस्तु तं विद्यादधमाधमम्
यमेन पापिनो दण्ड्यास्तन्नेष्यामो वयं त्विमौ
धर्माधर्मविवेको ऽयं तन्नेष्यामो यमान्तिकम्
प्रत्यूचूस्तान्यमभटानधर्मे धर्ममानिनः
सम्यग्विवेकशून्यानां निदानं ह्यापदां महत्
यूयं किमर्थमद्यापि कर्त्तुं पापानि सोद्यमाः
तिष्टन्ति नरके घोरे यावच्चन्द्रार्कतारकम्