किमर्थमेतद्वृत्तान्तं यथावद्वक्तुमर्हसि
आश्चर्यभूतं लोकानामावयोश्चरितं त्विह
कुमार्गगनिरतो नित्यं सर्वलोकाहिके रतः
गोध्नश्च ब्रह्महा चौरः सर्वप्राणिवधे रतः
एवं स्थितः कियत्कालमनाहत्यं महदृचः
मृगमांसाशनो नित्यं तथा पान्थाविल्लम्पकः
एकदा क्षुत्परिश्रान्तो निदाघार्त्तः पिपासितः
हंसकारण्डवाकीर्णं तत्समीपे महत्सरः
अपिबं तत्र पानीयं तत्तीरे विगतश्रमः
तस्मिञ्जीर्णीलये विष्णोनर्निवासं कृतकवानहम्
पर्णैस्तृणैश्च काष्ठैघैर् गृहं सम्यक् प्रकल्पितम्
तत्राहं व्याधवृत्तिस्थो हत्वा बहुविधान्मृगान्
अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा
बन्धुवर्गपरित्यक्ता दुःखिता जीर्णविग्रहा
दैवयोगाकत्समायाताभ्रमन्ती विजने वने
इमां दुःखार्दितां दृष्ट्वा जाता मे विपुला दया
गतश्रमात्वियं ब्रह्मन्मया पृष्टा यथा तयम्
नान्मावकोकिला चाहं निषादकुलसभ्भवा
परस्वहारिणी नित्यं सदा पैशुन्यवादिनी
कियत्कालं ततः पत्या भृताहं लोकनिन्दिता
कान्तारे विजने चैका भ्रमन्ती दुःखपीडिता
इत्येवं स्वकृतं कर्म मह्यं सर्वं न्यवेदयत्
स्थितौ वर्षाणि दश च आवां मांसफलाशिनौ
तत्र देवालये राघत्रौ मुदितौ मांसभोजनात्
प्रारब्धकर्म भोगान्तमावां युगपदागतौ
नेतुमावां नृत्यरतौ सुधोरां यमयातनाम्
देवावसथसंस्कारसंज्ञितेन कृतेन नः
ते दूता देवदेवस्य शङ्खचक्र गदाधराः
किरीटकुण्डलधरा हारिणो वनमालिनः
भयङ्करान्याशहस्तान्दंष्ट्रिणो यमकिङ्करान्