तावद्युगसहस्राणि हरिसारुप्यमश्नुते
ते ऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः
कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः
स देवयानेन दिवं यातीव सुमतिर्नृपः
सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम्
त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश
ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम्
सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः
सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः
हरिभक्तिपराणां च शुश्रूषुर्निरहॄङ्कृतिः
सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा
पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने
जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ
तडागारामवप्रादौ नसंख्यातान्वितेनतुः
नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा सञ्जुवादिनी
ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम्
प्रिमां मत्यमतिं चाम्य देवा अपि सदास्तुवन्
आययौ बहुभिः शिप्यैर्द्रष्टुकामो विभाण्डकः
प्रत्युद्ययौ सपत्नीकः प्रजा भिर्बहुविस्तरम्
नीचासनस्थितो भूयः प्राञ्जलिर्मुनिमब्रवीत्
सतामायमनं सन्तं प्रशंसन्ति सुरवावहम्
तेजः कीर्तिर्धनं पुत्रा इति प्रहुर्विपश्चितः
यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो
स स्नातः सर्वतीर्थेषु पुण्यात्मा नात्र संशयः
मामाज्ञापय विप्रेन्द्र किं प्रियं करवाणि ते
स्पृशषन्करेण तं प्रीत्युवाचातिहर्षितः
विनयावनतः सर्वो बहुश्रेयो लभेदिह
विनयाल्लभते मर्त्यो दुर्लभं किं महात्मनाम्
स्वस्ति ते सततं भूयाद्यत्पृच्छामि तदुच्यताम्
तासु नित्यं ध्वजारोपे वर्त्त्से त्वं सदोद्यतः