ज्ञानिनां सर्वगो यस्तु स मे विष्णुः प्रसीदतु
हूयते च पुनर्द्वातार्थंभ्यां स मे विष्णुः प्रतीदतु
गतिदाता विश्वमृग्यः स मे विष्णुः प्रसूदतु
तानर्चयन्ति विबुधाः स मे विष्णुः प्रसीदतु
निर्गुणं च गुणाधारं स मे विष्णुः प्रसीदतु
आचार्यं पूजयेत्पश्चाद्दक्षिणाच्छादनादिभिः
पुत्रमत्रिकलत्राद्यैः स्वयं च सह बन्धुभिः
तस्य पुण्यफलं वक्ष्ये शृणुष्व सुसमाहितः
तावन्ति पापजालानि नश्यन्त्येव न संशयः
ध्वजं विष्णुगृहे कृत्वा मुच्यते सर्वपातकैः
तावद्युगसहस्राणि हरिसारुप्यमश्नुते
ते ऽपि सर्वे प्रमुच्यन्ते महापातककोटिभिः
कर्तुः सर्वाणि पापानि धुनोति निमिषार्द्धतः
स देवयानेन दिवं यातीव सुमतिर्नृपः
सर्वकर्मवरिष्टं च त्वयोक्तं ध्वजधारणम्
त्वयोक्तस्तस्य चरितं विस्तरेण ममादिश
ब्रह्मणा कथितं मह्यं सर्वपापप्रणाशनम्
सोमवंशोद्भवः श्रीमान्सत्पद्वीपैकनायकः
सर्वलक्षणसंपन्नः सर्वसंपद्विभूषितः
हरिभक्तिपराणां च शुश्रूषुर्निरहॄङ्कृतिः
सर्वभूतहितः शान्तः कृतज्ञः कीर्तिमांस्तथा
पतिव्रता पतिप्राणा नाम्रा सत्यमतिर्मुने
जातिस्मरौ महाभागौ सत्यज्ञौ सत्परायणौ
तडागारामवप्रादौ नसंख्यातान्वितेनतुः
नृत्यत्यत्यन्तसन्तुष्टा मनोज्ञा सञ्जुवादिनी
ध्वजमारोपयत्येव मनोज्ञं बहुविस्तरम्
प्रिमां मत्यमतिं चाम्य देवा अपि सदास्तुवन्
आययौ बहुभिः शिप्यैर्द्रष्टुकामो विभाण्डकः
प्रत्युद्ययौ सपत्नीकः प्रजा भिर्बहुविस्तरम्
नीचासनस्थितो भूयः प्राञ्जलिर्मुनिमब्रवीत्