जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे
असंख्याताब्जजन्माद्यैराभूषिततनूरूहः
सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः
मार्कण्डेयः स्थिनस्तस्य लीलाः पश्यन्महे शितुः
हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम
सर्वग्रस्तेन हरिणा किमर्थं सो ऽवशेषितः
हरिकीर्तिसुधापाने कस्यालस्यं प्रजा यते
शालग्रामे महातीर्थे सो ऽतप्यत महातपाः
निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः
सर्वभूतहितो दान्त स्तताप सुमहत्तपः
परेशं शरणं जग्मुर्नारायणमनामयम्
तुष्टुवुर्देवदेवेशं पह्मनाभं जगद्गुरुम्
मृकण्डुतपसा त्रस्तान्पाहि नः शरणागतान्
जयो लोकस्वरुपाय जयो ब्रह्माण्डहेतवे
नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे
नमस्ते ध्यानरुपाय नमस्ते ध्यानपाक्षिणे
नमो भूम्यादिरूपाय नमश्चैतन्यरुपिणे
अरुपाय स्वरुपाय बहुरुपाय ते नमः
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः
नमः सूर्य्यादिरुपाय हव्यकव्यभुजे नमः
नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः
प्रत्यक्षतामगात्तेषां शङ्कचत्रगदाधरः
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम्
स्तृयमानं मुनिवरैः पार्षदप्रवरावृत्तम्
नमश्चक्रुर्मुदा युक्ता अष्टाङ्गौरवनिं गताः
उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान्
युष्मान्न बाधते देवाः स ऋषिः सज्जनाग्राणीः
सर्वथान्यं न बाधन्ते स्वप्ने ऽपि सुरसत्तमाः
अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः
अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः